________________
[२] ब्रह्मणो नप्ता यज्ञे सोमरसपानात्कश्यपेत्यभिधानं प्राप्तवान् । तदुक्तं मार्कण्डेयपुराणे--
ब्रह्मणम्तनयो योऽभून्मरीचिरिति विश्रुतः ।
कश्यपस्तस्य पुत्रोऽभूत्कश्यपानात्स कश्यपः ॥ इति ! कश्यं सोमादिरसं पिवतीति कश्यप इति तद्व्युत्पत्तिः । कर्ता च यः खलु यं कंचिदर्थविशेष प्रतिपादयितुं स्वातन्त्र्येण पदवाक्यसंदर्भमारचयति स उच्यते लोके । एवं च व्यासेन प्रोक्तं वैयासिकं भारतमित्यादी भारतस्य व्यास इवास्य शिल्पशास्त्रस्य कश्यपेन प्रोक्तत्वात्कश्यपः कर्ता सिध्यति । नन्वयं शिल्पशास्त्रार्थः किं कश्यपस्य तपःप्रभावादिना स्वयंभातः किमुत केनचिदुपदिष्टः स्यात् । स्वयंभातश्चेद्युज्यते कश्यपस्यैतच्छिल्पशास्त्रकर्तृत्वम् । अन्येन केनापि उपदिष्टश्चेद्य एवोपदेष्टा स एवास्य शास्त्रस्य कर्ता भवेन्न कश्यपः । यतो यादृ. शानुपूर्वीघटितवाक्यसंदर्भोऽन्येनोच्चारितस्तं तयवाहमुञ्चारयामीति मनसि कृत्वा यः किलोच्चारयति नासौ कर्ता लोके प्रोच्यते, किं त्वनुवादकः स भवति । तत्र स्वयंभात इत्येतद्विषये न किंचित्प्रमाणमुपलभ्यते । उपलभ्यते त्वन्येनोपदिष्ट इत्यर्थे प्रमाणम् । यतः किल ग्रन्थोपक्रम एवं श्रूयते---
प्रणम्य देवचरणमेवं ब्रूयात्स कश्यपः । महार्थमल्यग्रन्थं च कर्षणाद्यर्चनान्तकम् ॥ अंशुमन्तमहातन्त्राद्यत्वयोक्तं पुरार्थकम् । तन्त्रं तद्वद देवानां रुद्राणामधिकारिणाम् ॥ अल्पायुष्यादिधर्माणां नराणां त्वधिकारिणाम् ।
अनुग्रहार्थं त्वेतेषां संक्षेपावद मे प्रभो ।। इति । एवं च सर्वप्राणिसुखसाधनमेतद्वास्तुशास्त्रं कश्यपेन महर्षिणा लोकोपकारार्थ देवाधिदेवाय श्रीशंकराय पृष्टं ततश्च चराचरगुरुणा परमेश्वरेण पार्वतीरमणेन सर्वविद्यानामीशानेन जिज्ञासवे कश्यपनान्ने महर्षय उपदिष्टमिति गम्यते । ततश्च महेश्वर एवास्य कर्ता कश्यपम्तु केवलं प्रकाशक इति कथं कश्यपम्यैतद्वास्तुशास्त्रकर्तृत्वं साध्यत इति चेदुच्यते । यद्वद्भगवता श्रीकृष्णेन शिष्योत्तमाय पार्थाय गीताशस्त्रमुप.