________________
काश्यपशिल्पसंबन्धि निवेदनम् ।
-.
-
.-659-2.
अयि भो गीर्वाणवाणीरसिकाः प्राचीनविद्यारहस्याभिज्ञा अत एव तत्र दृढ़बद्धादराः प्राच्यार्वा चीनविद्याविशारदा आनन्दाश्रमसंस्कृतग्रन्थावलीप्रकाशितग्र. न्थग्राहकमहाशयाः शृणुतेदानी निवेदनीयमस्ति किंचित् । अतोऽत्रावधानं दीययमानमाशासे । काश्यपशिल्पनामा शिल्पशास्त्रीयग्रन्थोऽद्यावधि देवनागयो लिपी वाप्यनुद्रितोऽत्र मुद्रणालये मुद्रणायोपक्रान्तः । उपक्रान्तस्य च तम्य दश द्वादश वा मासाः संवृत्ताः । संप्रति परिसमाप्तमुद्रणोऽयं ग्रन्थो विदुषां दृष्टिपथमवतरतीति प्रमोदावहमेतत् । काश्यकशिल्पेति नाम्नैवास्य ग्रन्थस्य विषयः कर्ता चावगतो भवति । कलाकौशल्यादिकं कर्म शिल्पमित्युच्यते । तदुक्तममरसिंहेनामरकोशे द्वितीयकाण्डे शूद्रवर्गे-शिल्पं कर्म कलादिकमिति । आदिशब्देन सुवर्णकारगृहकारादीनां कर्म ग्राह्यमिति तट्टीकायामुक्तम् । तादृशं शिल्पमधिकृत्य प्रणीतं शास्त्रमपि लक्षणया शिल्पशब्देनोच्यते । यथा वासवदत्तामधिकृत्य कृताऽऽख्यायिकाऽप्यभेदोपचारद्वासवदत्तेत्युच्यते तद्वत् । तच्च शिल्पं तक्षणं वास्तुविज्ञानमलंकार घटनं तन्तूनां वयनं माल्यग्रन्थनं काचवलयादिकरणमालेख्यकरणं ताम्रघट्टनं गीतं नृत्तं चेत्याद्यनेकभेदभिन्नम् । तथा तत्प्रतिपादकं शास्त्रमप्यनेकभेदाभिन्नम् । तत्र शिवविष्णुब्रह्मस्कन्दगणेशपार्वतीलक्ष्मीसरस्वत्यादिमूर्तिनिर्माणसहिततत्तद्देवतालयप्रासादहर्म्यगृहशालाद्यनेकप्रकारकवास्तुनिमणिप्रकारप्रतिपादकमिदं शास्त्रम् । अर्थाद्वास्तुशास्त्रमिति विशेषनामास्य फलति । वसन्ति प्राणिनोऽत्रेति वास्तुशब्दव्युत्पत्तिः । प्रासादहादिकं गृहं तदर्थः । गृहं च सर्वसुखोपभोगभ्य मुख्यं साधनम् । तदुक्तम्
स्त्रीपुत्रादिकभोगसौख्यजनकं धर्मार्थकामप्रदम् । जन्तूनां लयनं सुखास्पदमिदं शीताम्बुधर्मापहम् ।। वापीदेवगृहादिपुण्यमखिलं गेहात्समुत्पद्यते ।
गेहं पूर्वमुशन्ति तेन विबुधाः श्रीविश्वकर्मादयः ॥ इति । अस्य च कर्ता कश्यप ऋषिः । तत्र काश्यपेति विशेषणात् । कश्यपेन प्रोक्तं काश्यपं तच्च तच्छिल्पं चेति । अयं चर्षिर्विष्णोर्नाभिकमलात्समुद्भुतस्य