________________
काश्यपशिल्पे पञ्चविंशः पटलः । मध्यकोष्ठं सभद्रं वा द्विभद्रं वा द्विजोत्तम । पञ्जरं मानसूत्रेण कूटनिष्क्रान्तसागरम् ॥ २९ ।। उन्नतावनतो वेला सौष्ठीकोपयथाक्रमम् । उन्नतं सान्तरं मञ्चं तं तं प्रस्तरहीनकम् ॥ ३० ॥ चतुरश्राष्टवत्ताभं कूटं क्रमात्तले तले । नानामसूरकस्तम्भवेदिकालकतोरणः ॥ ३१ ॥ वृत्ताख्यस्फाटितेहस्तितुण्डैः कुम्भलतादिभिः । हारान्तरेषु मञ्चोर्चे क्षुद्रकोष्ठयुतं तु वा ।। ३२ ॥ तत्रैव हस्तितुण्डं वा भद्रनास्यल्पमेव वा । साधारं वा निराधारमेकानेकतलं तु वा ।। ३३ ।। शिरसो वर्तनं कण्ठं वृत्तं वाष्टाश्रमेव वा। युगाअं वा शिरद्वीहं विमानं द्राविडं भवेत् ॥ ३४ ॥ तदेव चरणाधारमेकाकारं तु कल्पयेत् ।
आ(हा)रान्तरे विशेषेण कल्पत्तस्फुटोदयम् ।। ३५ ॥ समं तु कूटकोष्ठाद्वौ सान्तरमस्तरान्विती । हीनावान्तरमन्तो निष्पञ्चसमसूत्रकम् ॥ ३६ ॥ हारान्तरे तु कर्तव्यं भद्रं वा भद्रपञ्जरम् । कपोतपञ्जराढ्यं वा सान्तरणस्तरान्वितम् ।। ३७ ॥ सर्वेषां कण्ठकूटानामाशीर्ष तु युगाश्रकम् । घस्वधे वेदिकोपेतं मण्डलं शीर्षकं गलम् ।। ३८ ॥ वस्वकं वा शिरः कण्ठं युगाणं वा प्रकल्पयेत् । एतच्च द्राविडं ख्यातं होमाद्याकुमलान्तरम् ।। ३९ ॥ वस्वश्रं वा घडश्रं वा तच्च द्राविडमुच्यते । एवं त्रिविधं नित्यं तु प्रोच्यते द्राविडालयम् !! ४० ॥ बेसराफूटकोठादिनीवाः स्युः समसूत्रणाः। वृत्ताकारशिरोपेतान्कण्ठकूटान्प्रकल्पयेत् ॥ ४१ ॥ वृत्तगर्भगृहाकारं बाह्यवृत्ताममेव चा । वृत्तग्रीवशिरोपेतं गयेष्ठं शिखरेण वा ॥ ४२ ।। सालिन्द्रं वा सभद्रं वाऽप्येकानेकतलं तु वा । समाग्रं वाऽऽयता या वृत्तं वृत्तायतं तु वा ।। ४३ ॥