________________
काश्यपशिल्पे पड्विंशः पटलः । द्वयश्रवृत्ताथवा(यन)हर्य कूटकोष्ठादिभियुतम् । उन्नतावनतोपेतो कूटकोष्ठौ यथाक्रमम् ॥ ४४ ॥ समौ वा कूटकोष्ठौ द्वौ बाहू भूम्येकमेव वा । वेसरं भवनं ख्यातमथवाऽन्यप्रकारतः ॥ ४५ ।। जन्मादिस्तूपिपर्यन्तं युगाणं नागरं भवेत् । वस्वश्रं शीर्ष कण्ठं वा द्राविडं भवनं भवेत् ।। ४६ ॥ वृत्तग्रीवशिरोपेतं वेसरं हर्म्यमीरितम् । कूटकोष्ठविहीनानां हर्म्यकं कथितास्तिमे( तं त्विदम् ) ॥ ४७ ॥ नानाधिष्टानसंयुक्तं गलं प्रत्याधि भेदितम् । सर्वत्र वृत्तपादं वा वेसरे भवने कुरु ।। ४८ ॥ लिङ्ग च पिण्डिकां चैव प्रासादं चैव जातिकाम् । सबैसंपत्समृद्धिः स्यान्नृपतेवास्तु मज्जनम् ।। ४९ ॥ परिते विपरीते वा राजराष्ट्रभयंकरम् । तस्मात्सर्वप्रयत्नेन एकजात्यवमाचरेत् ॥ ५० ॥ नागरे सकलं शान्तं वेसरे यानपत्तिनम् । . . भोगं वीरं च नृत्तं च द्राविडे भवने भवेत् ।। ५१ ॥ अन्यथा चेद्विपत्य च कर्तुर्भश्च देहिनाम् ।। नागरादिविधिः प्रोक्तो गर्भन्यासविधि शृणु ।। ५२ ॥ इति काश्यपशिल्पे नागरादिविधिः पञ्चविंशः पटलः ।
अथ पविंशः पटलः।
गर्भविन्यासः ।
-
-
-
अथ वक्ष्ये विशेषेण गर्भन्यासविधि परम् । प्रासाददे (गे)हमित्युक्तं तस्य प्रकारो वास्तुगर्मकम् ॥ १॥
गुरुहीने गृहे विप्र सकृत्कालं नवास्यकम् । - अहमन्यश्च वेदाश्च न बसे युन्न ()गर्भकम् ॥ २ ॥