________________
काश्यपशिल्पे पश्चविंशः पटलः ।
नागरादिविमानम् ।
नागरादिविमानानां लक्षणं वक्ष्यतेऽधुना । हिमाद्रिकन्ययोरन्तर्गतो देश उदाहतः ॥ १६ ॥ सोऽपि देशस्विधा भिन्नस्तत्तद्देशोद्भवैगुणैः । यथैव देहिनां देहो वातपित्तकफात्मकः ॥ १७ ॥ तथा ह्येतज्जगत्सर्व विज्ञेयं त्रिगुणात्मकम् । साक्षि(त्त्वि) तामसं चैव राजसं च त्रिधा स्मृतम् ।। १८ ॥ हिमाद्रिविन्ध्ययोरन्तर्गता सत्त्वा वसुंधरा । विन्ध्यादिकृष्णवेण्यन्ता राजसारख्या मही मता ॥ १९ ॥ कृष्णवेण्यादिकन्यान्तं तामसं भूतलं भवेत् । नागरं सात्त्विके देशे तामसे पे(वे)सरं भवेत् ॥ २०॥ राजसं द्राविडे देशे कामदेवं हि भावहे(ये)त् । सात्विके नागरे हवें तामसे वेसरालयौ ॥ २१ ॥ राजसै विडैहय क्रमात्पुण्डशियोषितः । विष्णुमहेश्वरो धाता क्रमाद्धादिदेवताः ।। २२ ॥ नागरं भूसुरं विद्यावेसरं वैश्यमुच्यते । द्राविडं तन्नृपं ज्ञेयं मात्रती(नतः)शृणु सुव्रत ॥ २३ ॥ कूटकोष्टादिनिष्क्रान्तं मानसूत्रे तु सुस्थितम् । उन्नतावनतोपेतो कूटकोष्ठौ यथाक्रमम् ।। २४ ॥ एकाकारतलस्तम्भपत्रतोरणसंयुतम् । क्षुद्रकोष्ठसमायुक्तं महानास्यपरे द्विज ॥ २५॥ वेदिकाजालकोपेतं कूटवेदाश्रशीर्षकम् । एकानेकतलं वापि सालीन्द्रं वाऽपि हीनकम् ।। २६ ॥ वेदाभं शीर्ष कण्ठं स्यात्सालाकारमथापि वा। नागरं भवनं ख्यातं तत्तद्देशे प्रकल्पितम् ॥ २७ ॥ प्राग्वत्कूटविनिष्क्रान्तं कोष्ठकूटोद्गतं तु चा । मानसूत्रादहिष्कूटं नीत्रकूटं तु कोष्ठकम् ॥ २८ ॥