________________
काश्यपशिल्पे पञ्चविंशः पटलः । शेवं द्विजातियोनिः स्यात्तमसेधकरं बुधः । धर्जयेद्वसुभिश्चैव ऋक्षे भूतं हयादिकम् ॥ २ ॥ नवधा परितो हस्तं पातलैहासयेद्बुधः । शेषमर्कादिपारं स्याव्यासायामकरं गुणैः ॥ ३ ॥ त्रिंशद्भिर्व येभित्तिं शेष प्रतिपदादयः। तिथ यस्तु समाख्यातं तुझं हस्ताष्टद्धिदम् ॥ ४ ॥ नाभिस्तु निविशेषमायामिन्युच्यते बुधैः । तुङ्ग नवं तु मध्यात्तु प्राम(क्रमा)द्वै नाडिभिर्हरेत् ॥ ५ ॥ शेषं व्ययमिति ख्यातं आयाधिका(क्यं) व्ययक्षयम् । केतुः सिंहो वृषो हस्ती गुरुः शुक्रो बुधः शशी ॥ ६॥ यजमानस्य जन्मोदविरोधे दिनं तथा । वास्तुजन्मविरोधं च त्रसा(तथा) ह्यात्मकुलं शुभम् ॥ ७॥ एवं परीक्ष्य बहुधा शुभमानं तु संग्रहेत् । अथवा विस्तृतायामहस्तमष्टगुणीकृते ।। ८ ।। भानुव्यये विशेषं तु आयमित्युच्यते बुधैः । नवद्वादशभिहासः शेषं व्ययमुदाहृतम् ॥ ९॥ वसुभिर्गुणिते ऋक्षे हृते शेषादिकं दिनम् । गुणवृद्धयाऽष्टभिहांसे शेपं ध्वजादियोनरः(यः)॥ १० ॥ नवऋद्धयापरीतोऽस्तं सप्तसंख्या तु हासयेत् । शेषमकोदिवारः स्यात्रिंशद्धासे तिथिर्भवेत् ।। ११ ॥ माग्वच्छुभाशुभं व शुभमानं तु संग्रहेन् । त्रिपश्चयु. वेदषडष्टनव भाति वै ॥ १२ ॥ सदेष्टसिद्धिदाः प्रोक्ताः शेषास्तुः परिवर्जिताः । नृपकर्तश्च जन्मक्षीद्गहऋक्षावसानकम् ॥ १३ ॥ गणयेन्मतिमान्विप्रः शुभमानं तु गृह्यताम् । लग्नाष्टमविनाशं च दुष्टयोगं च वर्जयेत् ।। १४ ।। शूपा(ला)दियोगदोषाहये दुष्टयोग उदाहृतः। आयादिरेवमाख्यातं नागरादिविधि शृणु ॥ १५ ॥