________________
काश्यपशिल्पे पञ्चविंशः पटलः । भित्तिमध्येऽधिबाटे वा मध्ये वाऽप्यन्तरेऽपि वा । भित्तिबाागतं सौतु बाह्ये वाऽभ्यन्तरेऽपि वा ॥ २६ ॥ तदध्रिमध्यावसानं मानसूत्रं द्विजोत्तम ।। भित्तिमध्येऽधिविस्तारं चाघ्रिस्थानेषु चोच्यते ।। २७ ।। भित्तिवाागतं पादं प्रागेव प्रोच्यते तदा ।। सालानां भित्तिमध्ये वा बाह्ये वाऽभ्यन्तरेऽपि वा ।। २८ ॥ यानानां शयनानां च स्यान्मध्ये मानसूत्रकम् । मानसत्रं समाख्यातं सर्वेषां सदनादिनाम् ।। २९ ॥ मानसूत्रं तु बाह्ये स्यात्कूटशालादिनीव्रकम् । फूटाग्रात्तवि(वद्वि)शालं वा त्रिपादं वाऽधमेव वा ॥ ३० ॥ पादं सार्थ सपादं वा मानसूत्राच्च होग(निर्ग)तिम् । अथवा दण्डमानेन तुङ्गादीनां तु निर्गतिम् ॥ ३१ ।। दण्डं वा ह्यर्थदण्डं वा द्विदण्डं साधेदण्डकम् । त्रिदण्डं वाऽथ निष्क्रान्तं मानसूत्रात्तु बाह्यतः ॥ ३२ ।। मानस्याभ्यन्तरे वेशं पिपा(विप)दामास्पदं सदा । तस्मात्सर्वप्रयत्नेन मानसूत्राद्वहिर्गतम् ॥ ३३ ॥ एतद्विन्याससूत्रं स्यात्समसूत्रात्समं तु धा। होमावागतसूत्रं वा अवसानमुदाहृतम् ।। ३४ ॥ मानविन्याससूत्रं च अवसानं च ते त्रयम ।
ख्यातं संक्षेपतो विप्र शणुष्वाऽऽयादिलक्षणम् ॥ ३५ ॥ इति काश्यपशिल्पे मानसूत्रादिलक्षणं चतुर्विंशः पटलः ।
अथ पञ्चविंशः पटलः ।
आयादिलक्षणम् ।
अथ वक्ष्ये विशेषेण आयादिलक्षणं परम् । हर्म्यषड्भागमानं तु गुणाढयं बमुभिहेरेत् ॥ १ ॥