________________
काश्यपशिल्पे चतुर्विंशः पटलः । पत्रिंशद्धस्तविस्तारे सप्तपञ्चाशदुच्छ्ये । प्रयोदशतलं कुर्यान्मम प्रीतिकरं भवेत् ॥ ११ ॥ विस्तार सप्तपश्चाशं नत्रभिहस्तमञ्चत(क)म् । नलं षोडशभिर्युक्तं शिवहयं शिवप्रियम् ॥ १२ ॥ एवं विकल्पमाख्यातं छि(छन्दमार्गमथो शण । त्रिचतुर्दशहस्तादि द्विद्विहस्तविवर्धनात् ।। १३ ।। पञ्चषट्षष्टिहस्तान्तं व्यासे चै सप्तविंशतिः । वैदभूभिं समारभ्य भानुभूमि(म्य)वसानतु(क)म् ॥ १४ ॥ अधमं मध्यमोत्कृष्टं मानं वेदतलं प्रति । सप्ताष्टादशहस्तादि त्रित्रिहस्तविवर्धनात् । १५ ।। पश्चपण्णवतिर्यावच्चं प्रागिव संख्यया । अधर्म मध्यमोत्कृष्टं तुङ्गभेदतलं प्रति ।। १६ ।। छिन्दमेवंतलाख्यातं जातिहम्यधमं(मथो) शण । सप्ताष्टादशहस्तादि द्विद्विहस्तविवर्धनात् ॥ १७ ॥ सप्ताशीतीति हस्तान्तं सप्तविंशतिसंख्यया । चतुभूमि समारभ्य यावदकेतलं प्रति ।। १८ ।। तावद्विस्तारमारख्यातमुत्सेधं शणु संहन(सुव्रत)। त्रिसप्तविंशद्रस्तादिविधिहस्तविवर्धनात् ।। १९ ॥ यावदाशतहस्तान्तमुच्चं प्रागिन संख्यया । अधमं मध्यमोत्कृष्टं व्यासोच्चं च क्रमोदितम् ।। २० ।। एवं जातिविमानं तु सः विंशतिधोदितम् । जातिछन्दविकल्पं च आभासास्ते द्विजोत्तम || २१ ॥ महतीद्वयन्तराल्पं च क्षुद्रनानाप्रचोदितम् । युगाग्रे भूतमाने तु मानसूत्रं च विन्यसेत् ॥ २२ ॥ तदन्याकृतिहाणां वेदं शृङ्गान्तपूरणम् । यत्रैव भज्यते तत्र मानसत्रं विधीयते ।। २३ ॥ प्रासादानां तु विस्तारं भित्तिपाद्धाह्यमेव वा । तत्पादाभ्यन्तरं वाऽथ तत्पादमध्यमं तु वा ॥ २४ ॥ उत्सेधं तदुपानादि स्तुप्यन्तं वा शिरोन्नतम् । सभामण्डपशालानां भित्तिमध्यावसानकम् ।। १५ ॥