________________
२५.८
काश्यपशिल्पे चतुर्विंशः पटलः ।
धनुर्ग्रहेण वाप्यादि नद्या (बुवा) नं च मापयेत् । अथवा कृष्णहस्तेन सर्ववास्तुनि वा द्विज ॥ ३४ ॥ इति काश्यपे प्रासादमानलक्षणं त्रयोविंशः पटलः ।
अथ चतुर्विंशः पटलः ।
मानसूत्रादयः ।
अथ वक्ष्ये विशेषेण मानसूत्रस्य लक्षणम् । त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ १ ॥ नवपङ्किरान्तं तु आस्तेनरुत्क (हस्तेनार्कक) रं भवेत् । एवमष्टविधं मानंयुग्मायुग्मं चतुश्चतुः ॥ २ ॥ पञ्चपड्ढस्तमारभ्य द्विद्विहस्तविवर्धनात् । तिविद्विरष्टकारान्तमाभासं त्रितलस्य तु ॥ ३ ॥ गृह्यधर्मकरायाबत्लप्ताष्टाविकतः क्रमः(कराः) | चतुष्पञ्चतलं वाऽथ युग्मायुग्यं च ते दश ॥ ४ ॥ विस्तारं सप्तषट् ञ्चभागं कृत्वा द्विजोत्तम । रसभूतगांशं तु विस्ताराद्रोपयेत्क्रमात् || ५ || विस्तारद्विगुणं चैव तस्मादष्टांशमाधिकम् । पञ्चायार्दितं तुङ्गमासे सदने द्विज ॥ ६ ॥ शान्तिकं पौष्टिकं चैव जयतं चाद्भुतं तथा । सर्वकामिकमित्येते अभिधानं यथाक्रमम् ॥ ७ ॥ हस्तद्वैधमवृत्त्याऽ(द्ध्याऽ)थ व्यासात्संपूर्णमाचरेत् । आवासहर्म्यमाख्यातं विकल्पमधुना शृणु । ८ ।।
नवपङ्किकरात्पञ्चपट्पञ्चाशत्करांशकम् । द्विद्विहस्तविवृद्धयः तु चतुर्विंशतिसंख्यया । ९ ॥ पञ्चभूमिं समारभ्य यावदर्कतलान्तकम् । अविकल्पं च यथाक्रमम् ॥ १० ॥