________________
काश्यपशिल्पे त्रयोविंशः पटलः ।
पञ्चविंशतिस्त्रिंशच्च चत्वारिंशत्तथैव च । पञ्चाशत्पष्टिसप्तत्या अशीतिर्नवतिः शतम् ॥ १९ ॥ प्रत्ययस्त्रीषु पञ्चाशज्जगती सुगतिस्तथा । सत्वरिव सशक्कश्च तुष्टिः पुष्टिर्धृतिस्तथा ||२०|| सुधिश्व दशाद्यादि शतानामभिधानकम् । एकादशं शतं चैव सहस्रमयुतं तथा ॥ २१ ॥ नियुतं प्रयुतं कोटिर व्रत खर्वटम् ।
निख शङ्ख पद्मं च समुद्रं मध्यमन्तरम् ॥ २२ ॥
आयं परं परा च देववृद्धया प्रकीर्तिताः ।
श्रेष्ठं मात्रान्तरैः (रं) स्तम्भ (म्मानां) द्वादशाङ्गुलं भवेत् ॥ २३ ॥ भानुद्रयाङ्गुलं कृष्णं हस्तमित्युच्यते बुधैः । श्रेष्ठमध्यान्तरैमत्रिः कल्प्यहस्तं तथोदितम् ॥ २४ ॥ तच्चतुष्कं भवेद्दण्डं तेन वस्त्राणि मापयेत् । पञ्चविंशतिमात्रं स्यात्प्राजापत्यं करें बुधः ॥ २५ ॥ पशितिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहम् । अष्टाविंशाङ्गुलं प्राच्यं वेदेहं नवविंशतिः ॥ २६ ॥ रूपा (पुल्यं ) त्रिंशदङ्गुल्य मे कत्रिंशत्प्रकीर्णकम् । एवमष्टविधं दस्तं प्रत्येकं द्विजसत्तम ॥ २७ ॥ अधमं मध्यमोत्कृष्टं भेदेनैव रविद्वयम् । धनु प्रकीर्णाढ्यं द्विजानां गृहमारभेत् ॥ २८ ॥ वैपुल्यं धनुर्मुष्टिभ्यां क्षत्रियाणां म(गृ)हे कुरु | प्राजापत्यं करं चैव शूद्रजात्या गृहे भवेत् ।। २९ ॥ अधिकं जात्यकं हस्तं हीनानां तु विवर्जयेत् । हीनाविकारविप्राणामधिकं च शुभावहम् ॥ ३० ॥ सर्वेषामुदितं हस्तमेवं सद्मनि पूजितम् । अन्यं च सर्वदेवानां योग्यं सद्म विभाजयेत् ॥ ३१ ॥ अधिकं कृष्णहस्तं तु सर्वजात्यकिं भवेत् । थानादिशयनान्तं च कृष्णहस्तेन मापयेत् || ३२ ॥ आरामधानकादीनि प्राजापत्यकरेण तु । धनुर्मुष्टिकया चैव ग्रामादि यो ( वास्तु मापयेत् ॥ ३३ ॥
19
હું