________________
४६
काश्यपशिल्पे द्वाविंशः पटलः ।
शिखरस्य तु विस्तारं त्रिचतुष्पञ्चभागया । क्रमान्नासाविशाल शमुत्तमाधममध्यया ॥ २ ॥ महानासी तु विख्याता त्रिविधा क्य (सा) प्रकीर्तिता । समं त्रिपादम वा शिखरे नासिनीत्रकम् || ३ | तत्तारत्रिचतुर्थांशहीनं शेषोदयं भवेत् । नासिकातुङ्गमाख्यातं तत्त्व ( द )र्वोच्चमथापि वा ॥ ४ ॥ शक्तिध्वजतदूर्चेन असिङ्गार्थ एव वा ।
त्रिपादं वा त्रिभाकं भागं वाऽथ तदुननम् ॥ ५ ॥ तच्छक्तिध्वजतु तु गुणभागविभाजिते । द्विभागं किंनरीवृत्तं तच्छेषं गलमानकम् || ६ || दण्डं तद्गलसारं स्याद्दिगुणं किनरीमुखम् । शक्तिध्वोपरिष्टं तु पत्रं बाघससूकलम् || ७ ! किनवक्त्रतुङ्गं स्यात्समं शूलोदर्यं भवेत् । पत्रं चोक्तेन मानेन तथा सौन्दर्यमाचरेत् || ८ || विस्तारमुखपट्ट्यस्तु दण्डं वाक्यर्थ ( नास्यर्ध) एवं वा । वलिमण्डल छत्राथै भूपये मुखपट्टिकाम् ॥ ९ ॥ मुखपट्ट्यवशेषान्तं तद्वा गाढमुदाहृतम् । शतस्थिततपट्ट्या (डी)भ्यां त्रिनाल्यप्रतिभूषितम् || १० ॥ शूलाभं वा स्थलाभं वा सव्यालं वा सनाटकम् | मालिकाकटकोष्ठादिमण्डितं वा विमानयेत् ॥ ११ ॥ चित्रचित्राख्यमकरैस्तोरणाख्यमथापि वा । तोरणाभ्यन्तरे लक्ष्मीः साभिषेकाम्बुनासिका ॥ १२ ॥ नानाविधैस्तथाऽन्यैव नासिकार्य तु मण्डयेत् । सभद्रं तु महानासिपादं सर्वाङ्गसंयुक्तम् || १३ || उत्तरं वाजनाब्जं च क्षेपणं नासिका तथा । कल्पयित्वा विशेषेण कण्ठो ता (ष्ठस्ता ) रादिमानतः || १४ || ऊर्ध्वस्तम्भविशालं वा विशालं वा एव वा । नासिकास्तम्भविस्तारं कर्णोच्चं तु तदुन्नतम् ॥ १५ ॥ स्वस्वश्रं वाऽथ वृत्तं वा युगाश्रं वा तदाकृति । नासिकायास्तु विस्तारं द्विदण्डं वा त्रिदण्डकम् ॥ १६ ॥