________________
काश्यपशिल्पे द्वाविंशः पटलः । शिखरस्य तु मानान्तं पद्मतुङ्गमुदाहृतम् । पमनारत्रिमार्गकं कुम्भस्याधोऽवलग्नकम् ॥ १०॥ अलमस्य त्रिभार्गकं कुम्भस्योपरि कन्धरम् । . कन्धरं त्रिगुणं पालि तमिभागे तु कुश्पलम् ॥ ११ ॥ पालिनालविशालं तु कंधरादिषु बृंहितम् । . पलिकान्तं शिरोमध्यादानुपूयं कृशं कुरु ॥ १२ ॥ मध्याद्वाजनतुल्यान्तं क्रमेण कृशता कुरु । तस्मात्कपोतनीव्रान्तं क्रमेणव बृहद्धनम् ।। १३ ॥ शिखरस्य तु तुङ्गा पद्माधै स्तपि तुङ्गकम् ।। द्वाविंशति भवेदुचं पद्ममन्यन्ध(मध्य)भागया ॥ १४ ॥ कम्पम(शमित्युक्तं गलमर्धाशमानतः । . तत्समं चोध्यकम्पं तु पद्ममंशेन कल्पयेत् ॥ १५ ॥ भूतभागं घटोत्सेधं कम्पमशमानतः ।। पद्ममंशेन कर्तव्यं कम्पमध्यांशमानतः ॥ १६ ॥ पञ्चाशं पालिकानां तु द्वयंशं कम्मं तु मु(ह्य)च्यते । पअमंशेन कर्तव्यं पालिकोच्चं तु भागया ॥ १७ ॥ अर्धेन पद्ममर्धेन पद्मशेषं तु कश्म(ल)म्। शिवराकृतिवत्कम्भं फलिकाकूश्मलं तथा ॥ १८ ॥ नागरे चतुरश्रं तद्वस्वभं द्राविडे शिरः । वृत्तं वेसरहम्र्ये तु शिरसो वर्तनं क्रमात् ॥ १९ ॥ नानाप(त्रि)लताभिस्तु शिखरं तु सुभूषयेत् ।। लक्षणं शिखरस्येवं नासिकालक्षणं शृणु ॥ २० ।। इति कश्यपशिल्पे शिखरलक्षणमेकविंशः पटलः।
अथ द्वाविंशः पटलः ।
नासिकालक्षणम् ।
अथ वक्ष्ये विशेषेण नासिकालक्षणं परम् । ललाटनासिकाख्यातं शिखरे तारसदृशम् ॥ १॥