________________
१७
काश्यपशिल्पे त्रयोविंशः पटलः । हितं शेषविशालं स्यान्नास्याङ्घ्रि बाह्यसीमकम् ।। नासिकाघ्रिद्वये मध्ये तन्मूर्तिस्थापनं कुरु ।। १७ ।। महानासमिदं प्रोक्तं क्षुद्रनासविधि शुणु । सार्धदण्डं द्विदण्डं वा त्रिदण्डं वाध्य विस्तृतम् ।। १८ ।। तत्तारत्रिचतुर्थाशं हीनं शेषोदयं भवेत् । कपोतालम्बनाक्षुद्रनागोचं तु स कल्पयेत् ।। १९ ॥ प्रतिवाजनसीमान्तं तस्य शक्तिध्वजोमतम् । तदुश्वं तु त्रिधा भज्य एकांशं कण्ठमानकम् ।। २० ।। शेष किंनरीवत्राद्वै तारं युक्तिवशान येत् । नासितारार्धगाढं स्याद्गाढाधेमुखपट्टिका ।। २१ ।। ध्यासं तालादिभिभूष्य नानालंकारसंयुतम् । : पादं प्रतिकपोतेषु कल्पयेत्स्वस्तिकाकृतिम् ।। २२ ।। मध्ये च कूटशालानां पञ्चरोचाल्पनासिकम् । - कल्पयेत्तु विशेषेण शिखरे भद्रनासिकम् ।। २३ ॥ शालाग्रयोस्तु कर्तव्या ललाटाख्या तु नासिका ॥ २४ ॥ नासिकालक्षणं प्रोक्तं ततः प्रासादमानकम् ॥ २५।। इति काश्यपशिल्पे नासिकालक्षणं द्वाविंशः पटलः ।
अथ त्रयोविंशः पटलः ।
-
-
पासादमानम् ।
अथ वक्ष्ये विशेषण प्रासाद (दे)पानलक्षणम् । . मासादः सदनं सम हम्य(धर्म)धान्मा(म) निकेतनन् ।॥ १ ॥ मन्दिरं भवनं वासो गेहं दिव्यविमानकम् । आश्रयं चाऽऽस्पदं चैव आधारं च क्रमेण तु ॥ २॥ भाधारप्रतिमि(घि)ष्ण्यं च हर्म्यपर्यायवाचकाः । तस्मादन परो नास्ति परिमाणं समुच्यते ।। ३ ।।