________________
काश्यपशिल्पे पञ्चदशः पटलः । कुडायतोरणमास्यातं द्वारतारणमुफ्ते ।। २५ ॥ . द्वारतुल्योभनव्यासं तोरणाशीतरं समम् । उत्तरं वाजनं वाऽजक्षेपणं चाष्टमङ्गलम् ।। २६ ॥ फलकं पञ्चवक्त्राढ्यं प्रागुक्तविधिना कुरु । वक्त्राख्यं मकराख्यं वा चिनतोरणमेव वा ॥ २७ ॥ मध्योर्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् ।। दर्पणं पूर्णकुम्भं च वृषमं युग्मचामरम् ॥ २८ ॥ श्रीवत्सं स्वस्तिकं शङ्ख दीपं देवाष्टमङ्गलम् । श्रीवत्सं मध्यमे कुर्यात्शेषांशं तस्य पार्श्वयोः ॥ २९ ॥ लोहारुशिलान्तर्वा कर्तव्यं द्वारतोरणम् । द्वारतोरणमेवं हि स्तम्भतोरणमुच्यते ॥ ३० ॥ पादोच्चं तु त्रिधा भज्य विभागं चरणोदयम् । पादं सर्वाङ्गसंयुक्तं पोतिकारहितं कुरु ॥ ३१ ॥ उत्तरं बाजनाजं च क्षेपणं निम्नवाजनम् । तदूर्ध्न च(झ)षकर्ण तु नानापत्रविचित्रितम् ॥ ३२ ॥ तोरणं मकरात्यं(ख्यं)तु मृणाल्याद्वि(ऽन्धि)तकंधरम् । सर्वालंकारसंयुक्तमेतत्स्यात्स्तम्भतोरणम् ॥ ३३ ॥ पादान्तरे हरायां वा कर्णप्रासादमध्यमे । शालामध्यान्तराले वा कर्तव्यं सर्वधामसु ॥ ३४ ॥ स्तम्भतोरणमाख्यातं शृणु कुम्भलताविधिम् ॥ ३५ ॥ इति काश्यपशिल्पे स्तम्भतोरणविधिश्चतुर्दशः पटलः ।
अथ पञ्चदशः पटलः ।
कुम्भस्थललक्षणम् ।
स्तम्भमूले तु वेधूचे पमासनं प्रकल्पयेत् । पादव्यापि, समं तुङ्गं सपादं पाविस्तृतम् ॥ १ ॥