________________
काश्यपशिल्पे चतुर्दशः पटलः । ताम्रजी वाऽऽयसौ याऽथ बलयो कीलबदितौ । सद्विस्मारप्रिभागैकं शिखायोगमवेशितौ ।। ११ ॥ शैलज भुवंगादियोगभूये शिरवान्वितौ । भुवङ्गपतङ्गन्योरनौ छिद्रयोर्वेशनन्वितौ ॥ १२ ॥ एवं दृढीकृतौ पश्चायोगावस्थानमाचरेत् । मुनक्षत्रे शुभे वारे शुभहोरा मुहूर्त के ॥ १३ ।। योगे संस्थापयेद्विम शान्तिहोमं परं चरेत् । भित्तिव्यासे तु भान्वंशे बाह्मात्पञ्चावसानकम् ॥ १४ ॥ अभ्यन्तरं तु सप्ताशं सीमा योगस्य मध्यमम् । तद्वाह्येऽभ्यन्तरं चैव योगव्यासोमयाश्रितम् ॥ १५ ॥ सर्वालंकारसंयुक्तं ... ... ... .... ... । . योगं वा पञ्चषट्सप्तभागे द्वौ तोरणायकम् ।। १६ ॥ शेपं पादोदयं ख्यासमेवं वै त्रिविधं भवेत् । युगानं वसुकोणं वा वृत्तं वा तोरणद्वयम् ।। १७ ।। कुम्भमण्डादिनव्य(संयुक्त) पोतिकासहितं तथा । पोतिकारहितं वाऽय वीरकाण्डसमन्वितम् ।। १८ ॥ कुख्यस्तम्भविशालार्ध सिपादं वा ममं तु वा। तोरणा िविशालं तु प्रोच्यते द्विजसत्तम ।। १९ ॥ उत्तरं वाजनं साप्त(ज)क्षेपणं क्षुद्रवाजनम् । यथा क्रमेण संकल्प्य अनेन विधिना बुध ॥ २० ॥ तोरणाङ्घिविशालं वा त्रिपा: वोत्तरोदयम् । तदर्धं वाजनोच्चं तु तस्या गलनायकम् ॥ २१ ॥ गलार्धक्षेपणं ख्यातं तस्या) क्षुद्रवाजनम् । उत्तरं पोतिकोर्षे च वीरकाण्डं तु वा भवेत् ॥ २२ ॥ उत्संधितानताग्रं तु कुर्यान्मकरविष्टरम् । तोरणाग्रविशालं तु कुडलस्तम्भोऽध आर्थकम् ।। २३ ॥ कुडव्यस्तम्भस्य तारान्तासं या तोरणाग्रकम् । स्वाधिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा ॥ २४ ॥ एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् ।