________________
काश्यपशिल्पे चतुर्दशः पटलः ।
स्तम्भाद्यं तोरणं चैत्र तथा कुम्भलता द्विज | वृत्ताख्यं स्फाटितं चैव हारं तारेषु कल्पयेत् ॥ ७ ॥ स्तम्भान्तरेव कर्तव्यं हर्म्यादीनां विशेषतः ॥ ८ ॥ इति काश्यपशिल्पे वृत्तस्फाटितलक्षणं त्रयोदशः पटलः ।
अथ चतुर्दशः पटलः ।
स्तंभतोरणम् ।
अथ वक्ष्ये विशेषेण स्तंभतोरणलक्षणम् ।
पादोचं दज्यरा (राधा) भज्य शुद्धद्वारं नवांशकम् || १ || चरणं नवधा भज्य अष्टांशं द्वारमानकम् | अथवाऽङ्घ्रिस्तु तुङ्गं तु वसुभागविभाजिते ॥ २ ॥ सप्तमं द्वारमानं तु रसभागविभाजिते । सार्धपञ्चाशमूर्श्वे तु भगस्योच्च (द) पं भवेत् ॥ ३ ॥ पदं गच्छ (तुङ्गोश्चा) मल (घ) स्तात्तु सार्धद्विभागमुच्यते । शुद्धद्वारे ताराशं शुद्धद्वारस्य विस्तृतम् ॥ ३ ॥ एक द्वित्रिचतुष्पञ्च षट्सप्तष्टनवाङ्गुलम् | तुङ्गादधिकं हीनं तारमेकोनविंशतिः || ५ | भेदमेवं समाख्यातं द्वारतुङ्गन्यं भवेत् । सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् ॥ ६ ॥ पादविष्कम्भमानं वा सपादं सार्धमेव वा । द्वारयोगस्य विस्तारं तस्यार्धं ख (घ) नमुच्यते ॥ ७ ॥ साह (2) सार्धख (घ) नं वाऽथ त्रिपादं वाऽथ तद्घनम् । योग तु वेदांशमेकाग्रांशमथोत्तमम् ॥ ८ ॥ गुणांशमूर्ध्वगं ख्यातं बाह्याब्जक्षेपणाश्चितम् । बाह्येऽब्जक्षेपणोपेतं भूतारं तदधो भवेत् ॥ ९ ॥ पतङ्गन्तारयोगस्य तुल्यमब्जविहीनकम् । भुवनं च पतङ्गं च मध्यस्थवलयान्वितम् ॥ १० ॥
३५