________________
काश्यपशिल्पे त्रयोदशः पटलः । नानालंकारसंयुक्तं वृत्तं मकरतोरणम् । तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि ॥ ९॥ नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्तथा । सिहव्यालकहंसाचैबेलाग्रन्मुक्तमादकैः ॥ १०॥ अन्यैश्च विविधैश्छत्रै रत्नसंघेश्च भूषयेत् । चित्रतोरणमेवं स्यात्मोच्यते तोरणत्रयम् ॥ ११ ॥ तोरणं चा(णान्य)न्तराऽधस्तात्प्रयोज्यानि विचक्षणैः । ... .... .... पार्श्वयोर्विकरण्डसमन्वितम् ॥ १२ ॥ बोधिकारहितं यत्तत् स्तम्भं तु गलता स्मृता । स्तम्भतोरणवन्मूनि कर्तव्यं तोरणदयम् ।।
एवं तत्रिविधं नीत्वा द्विज कुम्भलतोच्यते ॥ १३ ॥ इति काश्यपशिल्पे तोरणकुम्भलता (लक्षण) द्वादशः पटलः ।
अथ त्रयोदशः पटलः ।
वृत्तस्फाटितलक्षणम् ।
अथ वक्ष्ये विशेषेण वृत्तस्फाटितलक्षणम् । . षडगुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥ १ ॥ कलाकु(गु)लावधिर्या(धिं या)वत् तावद्वयासं तु षड्धिम् । विस्तारार्धे तु तन्नीव्र द्वात्रिंशद्वित्रिभागकम् ।। २ ।। वृत्ताकारसमं तच्च तोरणाधितु(क)दायु(य)तम् । सकंधरं तवं तु शुकनासान्वितं तु वा ॥ ३ ॥ कर्णकूटाकृति वाऽथ वृत्ताकारं प्रकल्पयेत् । स्तम्भोत्सेधयुगांशे तु द्विभागं चरणोदयम् ॥ ४ ॥ प्रस्तरोदयमेकांशं शुकनाम्युदयांशकम् ।। तदेव कूटमानं तु तत्तदुक्तवशाम्नयेत् ॥ ५ ॥ अथवा तरमंच स्य प्रोक्तमार्गेण वा कुरु।' वृत्तस्फाटिनमेवं हि लतामण्डलमण्डितम् ॥ ६ ॥