________________
B
३८
काश्यपशिल्पे षोडशः पटलः ।
पद्मोचं वसुधा भज्य कम्यमेकाशमेव वा । अथो पद्मं गुणांशं तु एकांशं गलमुच्यते ॥ २ ॥ ऊर्ध्वमन्त्रद्विभागे तु कम्पमेकेन कारयेत् । तदूवें कुम्भतु तु पद्म स्योच्च समन्वियात् ॥ ३ ॥ तत्तुङ्गं द्विगुणं कुम्भव्यासमित्यभिधीयते । कुम्भास्ये स्तम्भनिर्यूहं वलिमण्डलसंयुतम् ॥ ४ ॥ कुम्भमण्डादिसंयुक्तं बीरकाण्डविहीनकम् । फलकोपरि पद्मं तु कुम्भमानेन कल्पयेत् ॥ ५ ॥ कुम्भकुम्भलता होता ह्यन्यथा वक्ष्यते पुनः । तदेवोत्संधिकोर्ध्वे तु वीरकाण्डसमन्वितम् ॥ ६ ॥ पोतिकारहितं यत्नात्स्तम्भकुम्भलता स्मृता । स्तम्भतोरणवन्मूनि कर्तव्यं तोरणालयम् ॥ ७ ॥ एवं त्रिविधं चित्वा तूयते लम्भलता द्विज ॥ ८ ॥ इति काश्यपशिल्पे कुम्भस्थललक्षणं पञ्चदशः पटलः ।
अथ षोडशः पटलः ।
वृत्तस्फुटितम् ।
अथ वक्ष्ये विशेषेण वृत्तस्फुटितलक्षणम् । षडङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥ १ ॥ कालविधि (या ) वत्तावदयासं तु षड्विधम् । विस्तारार्धं तु तीव्रं द्वित्रयांशं च भागिकम् || २ || वृत्ताकारसमं चान्तस्तोरणाङ्घ्रिवदायतम् । कन्धरं तु तदूर्ध्वे तु क्षू (शु) करास्यान्वितं तु वा ॥ ३ ॥ कर्णकूटाकृतिर्वाऽथ वृत्ताकारं प्रकल्पयेत् । स्तम्भोत्सेधयुगांशे तु द्विभागं चरणोदयम् ॥ ४ ॥ प्रस्तरोदयमेकाशं शुकनास्युदयांशकम् । तदेव कूटमानं तु तत्तदुक्तवशान्नयेत् ॥ ५ ॥