________________
काश्यपशिल्पे दशमः पटलः ।
एवं हि चरणानां तु मूले तु वेदिकोदयम् । ऊर्ध्वमभ्यङ्घ्रितुङ्गे तु सप्तभागविभाजिते ।। ५ ।। एकांश खण्डहर्म्याणां वैदिकोदयमिष्यते । त्रिचतुष्पञ्चभागं तु गलोत्सेधं द्विभाजिते ॥ ६ ॥ गलमुच्चतमेकांशं श्रेष्ठमध्यामं तथा । अर्धोत्सेधांशमानं वा दण्डमूले तु वेदिका ॥ ७ ॥
शे वेदिकोत्सेधं गुणांशं गलमानकम् | गलोर्ध्वे कम्पमेकांशमेकेनाब्जं प्रकल्पयेत् ॥ ८॥ तदूकम्पमेकांशं कर्तव्यं द्विजसत्तम । सप्ताष्टांशे तु वेद्युच्चैर्वेदभूतं क्रमाद्गलम् ॥। ९ ॥ क.बं. टं) पद्मं च कम्पं च प्राणिचैव प्रकल्पयेत् । कण्ठमानेन तन्मूले कम्पमेकेन कल्पयेत् ॥ शेषं कण्ठोदयं प्रोक्तं तत्कम्परहितं तु वा । अत्यधशं तु वा पद्मं तुङ्ग दुर्घशमथापि वा ॥। ११ ॥ पथशैलसुपत्रामा चित्रांशा वेदिकाऽथवा । सर्वेषां वेदिकानां तु गलमङ्घ्रिविभूषितम् ॥ १२ ॥ कुख्यस्तम्भसमण्यासान्नीत्रं वा वेदिकाङ्घ्रिका | मरोपरित (स्तरोपरि )वेदीनां वेशनं शृणु सुवत ॥ १३ ॥ गर्भभितत्रिभागेकमङ्घिवेषङ्घिवेशनम् ।
|| 0
चतुर्भागैकभागं वा पञ्चभागैकरा (मा) भजेत् ॥ १४ ॥ एकांश रहितं शेषं वेदिकायास्तु विस्तृतम् । युगांशं वेदिकाकारं नागरे प्रस्तरोपरि ॥ १५ ॥ द्राविडे वैसरैर्हयैर्वस्वयं वेदिकाकृति | अथवा बेसराहर्म्यवेदिकाप्रत एव वा ।। १६ । अनेकाश्रयता व गलाग्रं वेदिकाश्रया । दिकालक्षणं प्रोक्तं ततो जालकलक्षणम् ॥ १७ ॥
इति श्रीकाश्यपशिल्पे वैदिकालक्षणो दशमः पटः |
३१