________________
काश्यपशिल्पे दशमः पटलः ।
विष्कम्भः। पादच्याससमौ होनौ तत्कण्ठस्यास्य विस्मृ(स्त)तम् । अस्य कण्ठविशेषेण कुम्भस्योपरि विस्मृ(स्तृतम् ॥ ३१ ॥ स्तम्भे व्याससमं प्रोक्तं विस्तारे तच कर्णयोः । तस्याधो लश्नुनं मूलात्कल्पयेत्कल्पवित्तमः ॥ ३२ ॥ अथवा बोधिकादीनामुदयं तु वदाम्यहम् । ऊणा(न)शशरणोत्सेधं कृत्वाऽधो व्यंशकं ब्रजेत् ॥ ३३ ।। ऊर्श्वभागं तु संग्राह्यं द्वाविंशत्यं शकं व्रजेत् । युगांशं बोधिकोत्सेधं वीरकण्ठं च तत्समम् ॥ ३४ ॥ भूतांशं फलकोत्सेधं मध्यमूलं शिवांशकम् । सोभे(समो)त्सेधं तु वेदांशं शिवशिं कण्ठमानकम् ॥ ३५ ॥ तदास्योदयमेकांशं पद्ममेकेन कारयेत् ।। वृतमन्धे(धै)न कर्तव्यं हीनं तत्सममुच्यते ॥ ३६ ॥ लनुनाऽजलतामुक्तं मालामानादि पूर्ववत । स्तम्भभूषणमेवं स्याद्वेदिकालक्षणं ततः ॥ ३७॥ इति काश्यपशिल्पे फलकलक्षणविधानो नवमः पटलः ।
अथ दशमः पटलः ।
वेदिकालक्षणम् ।
अथ वक्ष्ये विशेषेण वेदिकालक्षणं परम् । अधिष्ठानोपरिष्टात्तु स्तम्भमूले च फल्पयेत् ॥ १ ।। प्रस्तारं सो(रस्यो)परिष्टात्तु कर्तव्या वेदिका दिन । अध्यर्धदण्डमानं तु कन्यसा वेदिका मता ॥ २ ॥ द्विदण्डोदयमध्यं स्याच्छेष्ठं तुङ्ग त्रिदण्डकम् । अथवाऽन्यप्रकारेण वेदिकोत्सेधमुच्यते ॥ ३ ॥ चरणोदयं तु षट्सप्तवसुभागविभाजते । एकांशं वेदिकामानं कार्य श्रेष्ठमधोऽधमम् ॥ ४ ॥