________________
काश्यपशिल्पे नवमः पटलः ।। पत्रविचित्रिता पत्रबोधिका तु प्रकीर्तिता। महार्णवतरङ्गाभस्तरङ्गास्तु प्रकल्पयेत(ल्यताम् ) ॥१७॥ पादमधेत्रिपादं वा भित्त्य स्तम्भस्य निर्गतम् । चतुरष्टाश्रवृत्तानां क्रमात्साधारणं तु वा ॥१८॥ बोधिकायास्तथाग्रं तु वीरकण्ठयुगाग्रकम् । अग्रपादसमं तच्च त्रिपादं तुङ्गमुच्यते ।। १९ ॥ सर्वेषामपि पादानां वीरकण्ठयुगाश्रकम् । अधस्ताद्वीरकण्ठं स्यात्फलिकालक्षणं शृणु ॥ २० ॥
फलिका। अथ वक्ष्ये विशेषेण फलिकानां तु लक्षणम् । त्रिदण्डं फलिकाव्यासं कन्यासार्धाधिक समम् ॥ २१ ॥ चतुर्दण्डविशालं तु उत्तमा लम्भका भवेत् ।। अथवा फलकाव्यासं कुर्भकर्ग समं भवेत् ॥ २२ ॥ सर्वेषां फलकानां तु तुङ्ग पादोनदण्डकम् । तदुत्सेधं त्रिधा भज्य ऊर्व सो(तत्सं)न्धिरुच्यते ॥ २३ ॥ तयायो(?)पेतमेकांशं तस्याधस्त्वम्बुजांशकम् । नागपत्रसमाकारमपेतोपादरूपकम् ।। २४ ।। सर्वेषां फलकानां तु उत्सेधा) युगांशकम् । फलकमेव कर्तव्यं तस्याधस्तात्खठं(घट) कुरु ॥ २५ ॥ द्विदण्डं पादहीनं वा सार्धदण्डमथापि वा । सपाददण्तुङ्ग वा घटोच्चं तु चतुर्विधम् ॥ २६ ॥ प्रियदशेनं सौम्यं च चन्द्रकान्तं च श्रीकरम् । यथा क्रमेण नामानि कलशानां क्रमादितः ।। २७ ।। घटोच्च पे(च)नवांशेन हद्भागे परिकल्पयेत् । वेदांशं कलशोत्सेधं कण्ठमेकांशमानतः ॥ २८॥ आस्योच्चमेकभागेन पद्ममेकेन कारयेत् । अधोऽनावृत्तमन्धेन हीनी संकल्पये दुधः ।। २९ ॥ ऊवोदयगतं कुर्यादनेन विधिना क्रमात् । एवमुच्चं समाख्यातं विष्कम्भपधुना शृणु ॥ ३० ॥