________________
.
काश्यपशिल्पे नवमः पटलः । अग्रपादविशालं स्थास्सम कन्यासबोधिका । विस्तारसदृशोत्सेधं पञ्चदण्डायतान्वितम् ॥ २ ॥ उत्तमा बोधिका ख्यासा तारविश्यंशमुमता। चतुर्दण्डायतोपेता मध्यमा सा प्रकीर्तिता ।। ३ ।। विस्तारस्याधतुङ्गं तु गुणदण्डायुतान्वितम् ।। कन्यासबोधिकाख्यातं त्वज्रयोऊधिकान्वितम् ॥ ४॥ बोधिकाश्च त्रि(यास्त्रि)भागे तु एका शेनापष्टिकम् । मध्यांशेन तरङ्ग स्याल्लतायैर्भूषितं तु वा ॥ ५ ॥ तदधस्त्वेकभागेन मुष्टिबन्धं च कारयेत् । दण्डत्रिपादमर्थे वा छायामानं तदंशके ।। ६ ॥ ऊधिः पष्टिकाधस्ताच्छायाकारं प्रकल्पयेत् । अधस्ताहाधिकाकारमलंकारं वदाम्यहम् ॥ ७ ॥ मध्ये पट्टत्रिभागैकं विस्तारार्धमथापि वा । पार्श्वयोरुभयोः शेषं तरङ्ग स्थानमुच्यते ॥ ८ ॥ सक्षुद्रक्षेपणं मध्यात्पट्टपत्राधलंकृतम् । पायोस्तु तरङ्ग स्यात्समाचान्योन्यहानकम् ॥ ९ ॥ बोधिविस्ताररन्धं वा त्रिपादं वाऽग्रनीलकम् । तन्मूलसदृशं व्यासं बोधिकायाः प्रकल्पयेत् ॥ १० ॥ अन्यन्दो(दो), षडंशांशं कृत्वोर्ष पट्टिकान्वितम् । ऊर्ध्वपामधासे(थाशे)न कण्ठमध्येन कारयेत् ॥ ११ ॥ अधोपनं द्विभागेन चोर्ध्व पट्टांशमुच्यते । अधस्त्वम्बुजमध्यांशं कल्पयेत्तु क्रमेण तु ॥ १२ ॥ पद्मस्य मुकुलाकारमग्रादधो गतं कुरु।। अग्रनिष्क्रामयुक्तं वा छायाकारमथापि वा ।। १३ । पार्श्वयोर्मुष्टिबन्धाग्नं व्याल आपा(या)दिकल्पितम् । भुजे वा मकालैः पट्टकाद्यैर्विभूषितम् ॥ १४ ॥ रत्नबन्धक्रियावल्लिचित्रयाग्रस्तपट्टिका । बोधिका या स्त(त)रगाढया तन्मध्ये दण्डमानतः ॥ १५ ॥ युगानं पट्टसंयुक्तं तारोच्छायं तु वृत्तकम् । नानाचित्रैरलंकृत्य बोधिकाचित्रबोधिका ॥ १६ ॥