________________
काश्यपशिल्पे नवमः पटलः । चक्रवाकतलं मध्ये भूषितं पद्मपादुकम् । परमूलाधिमध्ये तु व्यालेन व्यालपादुकम् ।। १९ ॥ मूलेभपादमानेन गजपादमुदाहृतम् । मूले बिम्बादिभिः कुर्याद्यथेष्टाकृतिसंयुतम् ॥ २० ॥ कुम्भमण्डादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् । वृत्ताकारे तदायामे शूण्डुभेदैः समन्वितम् ।। २१ ॥ कुम्भमण्डादिसंयुक्तं शूण्डुपादमुदाहृतम् । मुक्तादामैरलंकृत्य पिण्डिपादमुदाहृतम् ॥ २२ ॥ विष्कम्भकर्णमानेन स्तम्भाने चतुरश्रकम् । सदधस्त्वर्धदण्डानामब्जमष्टाश्रसंयुतम् ॥ २३ ॥ मण्डमानेन तस्यायो वस्वथ परिकल्पयेत् । तदधः पूर्ववत्पमं तस्याधो दण्डमानतः ॥ २४ ॥ चतुरश्रसमायुक्तं तस्य छत्रं तु पूर्ववत् । मूले वा वेदशेषानं छत्रखण्डं तदुच्यते ॥ २५ ॥ मध्यपहुं तु वस्वश्रं श्रीकण्ठं तदुदाहृतम् । मध्ये पट्टे कलावं चेच्छ्रीवजं स्तम्भमुच्यते ॥ २३ ॥ मूलादग्रं युगाग्रं स्थाधिपट्ट क्षेपणान्वितम् । क्षेपणस्तम्भमाख्यातं पट्टपत्रादिशोभितम् ॥ २७॥ स्तम्भाकारत्रिभागेकचतुर्भामैकमेव वा । स्तम्भमध्ये शिखां कुर्यादेतत्स्तम्भविशेषतः ।। २८ ।। स्तम्भमूले तु पनानि स्तम्भमाने तु(न) कल्पयेत् । स्थ(स्त)म्भलक्षणमाख्यातं बोधिकालक्षणं शृणु ।। २९ ।। इति काश्यपशिल्पे स्तम्भलक्षणेऽष्टमः पटलः।
अथ नवमः पटलः ।
बोधिका
अथ वक्ष्ये विशेषेण बोधिकालक्षणं परम् । मूलपादस्य पादेन श्रेष्ठे(ष्टी मध्ये तु मध्यमम् ।। १ ।।