________________
२६
काश्यपशिल्पे अष्टमः पटलः ।
तस्मात्तारन (त) लोचं तु षष्ठांशं त्वधिकं तु वा । पदोच्चं पङ्किनन्दाष्ट भागैकं वाऽङ्घ्रिविस्तरम् ॥ ४ ॥ दारुपादतलं ह्येतत्कुडयपादमथोच्यते । तदर्थं वा त्रिभाकं चतुर्भागोनमेव वा ॥ ५ ॥ आढयस्तम्भविशालं स्यादेतत्सर्व सुधर्मसु । मतेरुत्तर सीमान्ते विशालस्तम्भ उच्यते ॥ ६ ॥ उपानाद्युत्तरान्तस्यो निखाताङ्घ्रिस्तदुच्यते । तु सप्तांशमथवा नवधर्मेश एव वा ॥ ७ ॥ रुद्रभान्वंशकं वाऽथ कृत्वैथां (का) शाङ्घ्रिविस्तरम् । तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् ॥ ८ ॥ एकभागविहीनं तु शेषमग्रविशालकम् ॥ एकादिषोडशान्तं च तलं प्रत्येवमाचरेत् ॥ ९ ॥ मूलादग्रं युगात्रं तु कुम्भमन्यादिसंयुतम् । ब्रह्मकान्तमिति ख्यातं वस्वत्रं विष्णुकान्तकम् ॥ १० ॥ रसात्रमिन्द्रकान्तं स्याश्चन्द्रकान्तं तल. खकम् । कण्ठमानेन तन्मूलं तथैवाग्रं तु प्रकल्पयेत् ॥ ११ ॥ स्तम्भा चैव तन्माने चतुरश्रं समन्वितम् । तयोर्मध्येऽपि वस्त्र षोडशाश्रमथापि वा ॥ १२ ॥ वृत्ताकारं तु वा वि (व) मं कुम्भमण्डादिसंयुतम् । कुम्भमण्डा हीनं यत्तदाहू रुद्रकान्तकम् || १३ ॥ मूलादग्रविशालं तु मध्येऽष्टाश्रं द्विमण्डकम् | रुद्रकान्तमिति ख्यातं मूलादग्रं तु वर्तुलम् ॥ १४ ॥ कुण्डादि तन्मध्ये अष्टाभं तावदुच्यते । चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा ।। १५ । तदुद्वे (दूध्वें) वृत्तमेवं स्याचिभागं तुङ्गसदृशम् । शिवच्छंदमिति ख्यातं शिवह मसंस्थितम् ॥ १६ ॥ दण्डं सार्धद्विदण्डं वा मूलपद्मासनोदयम् । द्विगुणं पत्रविस्तारं पद्माकारं तु कारयेत् ॥ १७ ॥ तन्मध्ये कार्णिकायां तु चरणस्थापनं कुरु । यथेष्टा कृतिसंयुक्तं कुम्भमण्डादिसंयुतम् ॥ १८ ॥