________________
काश्यपशिल्पे अप्रमः पटलः ।
२५
तन्मलं तारपञ्चशिं त्रयांशं त्वयविस्तृतम् । तद्विस्तारसमं पाया(दा)त्रिपादं वाऽथ तद्धनम् ॥ ६ ॥ विस्तारस्य त्रिभागैकं छिद्रतारोन्नतं तथा । नालमध्ये तु कर्तव्यं निम्नोन्नतविवर्जितम् ।। ७ ।। मृलादग्रोन्नतं किंचिन्मूलं हंसस्य चान्वितम् । गजोष्ट(ठ)सदृशालम्ब्यं(म्बी) यथासुन्दरमाचरेत् ॥ ८॥ व्यालो वा सिंहभूतो वा नालं धृत्वा तु संस्थितः । नालमेवं प्रकर्तव्यं सौम्यं प्रासादमध्यगम् ॥ ९॥ स्थापयित्वा विशेषेण अनेन विधिना तथा । नालं गन्धोदकैर्दिव्यैः स्थापयित्वा हु(मु)दा बुधः ॥ १० ॥ शान्तिहोमं तु कुर्वीत वारुणं सूक्तमुच्चरन् । स्थापकः सुप्रसन्नात्मा सुमुहूर्ते सुलग्नके ॥ ११ ॥ नालं तु स्थापयेद्धीमानस्थपतिः स्थापकान्वितः । सर्वालंकारसंयुक्तं सर्वतोयसमन्वितम् ।। १२ ।। मुधया गुढतोयश्च बन्धयेत्सुदृढं यया। शिलायां तु कर्तव्यं नालं तु द्विदलान्वितम् ॥ १३ ॥ नालस्थापनमेवं तु स्तम्भलक्षणमुच्यते ॥ १४ ॥ इति काश्यपशिल्पे नाललक्षणं सप्तमः पटलः ।
अथाष्टमः पटलः ।
पदवर्ग:।
अथ वक्ष्ये विशेषेण चरणायामविस्तरम् । आकारं भूषणं चैव संक्षेपाच्छृणु सुत्रत ॥ १ ॥ स्तम्भं च तलिपं चैव चरं जगन्ममेव वा । स्थाणुः स्थूणश्च पादश्च पर्यायवचनानि च ॥ २॥ उक्तोत्सेधांशमानेन पादायामो विधीयते । उक्ताधिष्ठानतुङ्गस्य द्विगुणं वाऽधितुङ्गकम् ॥ ३ ॥