________________
काश्यपशिल्प एकादशः पटलः ।
अथैकादशः पटलः ।
जालकलक्षणम् ।
अथ वक्ष्ये विशेषेण शृणु जालकलक्षणम् । पादवर्गगले चैव जालकस्थानमुच्यते ॥ १ ॥ प्रासादेषु महावास्तु अन्तरालैव मध्यमम् । पादात्पदं न कर्तव्यमनेन विधिना बुधः ॥ २॥ योजयेद्वदिकोषे तु जालकं तु द्विजोत्तमाः । वेदिका जालकार्थं न च्छेद्या सर्वविनाशनम् ।। ३ ।। तद्यथा वेदिका जालं कार्य न च्छेदयेत्तथा । द्विदण्डं कन्यसं व्यासं त्रिदण्डं मध्यमं भवेत् ॥ ४ ॥ चतुर्दण्डविशालं तु छत्तमं परिकीर्तितम् । विस्तारसहशोत्सेधमेकदण्डादिवर्धनात् ॥ ५॥ विस्तारद्विगुणं वाऽथ तावद्वैजालको समम् । येषु तुजविशाले तु यदिष्टं तु परिग्रहेत् ॥ ६ ॥ स्तम्भष्यासार्धमानं तु घनं व्यासाशिकम्पयोः । विस्तारार्था(धर्धा)यन(त)रा वातत्रिचतुर्थाशमेव वा ॥ ७ ॥ मध्यस्थं च[२] रन्धं च वय जालकमाचरेत् । युग्मपादसमायुक्तमयुग्मं कम्पमुध्यते ॥ ८ ॥ गोने हस्तिनेत्रं च नन्यावर्त ऋजुक्रियम् । पुष्पकर्ण सकर्ण च जालकं पडिधं भवेत् ॥१॥ दीर्घाश्रं कण्डकच्छिदं गोनेत्रमिति संज्ञितम् । मुगाशं फर्णकच्छिद्रं हस्तिनेत्रमुदाहृतम् ॥ १० ॥ पश्वसनं तु यच्छिद्रं मदक्षिणवशात्कृति । मन्यावर्तस्य पुष्पाभं नन्यावमिति स्मृतम् ॥ ११ ॥ भा कालो स्तम्भकम्पो द्वौ जालं तदूजुक्रियम् । पुष्पकण्ठं सकर्णाभं नन्यावर्तमिवाऽऽकृति ॥ १२ ।।