________________
काश्यपशिल्पे षष्ठः पटलः । त्रिपष्टुं वेकभागेन प्रतिमानं द्विभागया। घाजनं त्वेकभागेन भानुद्विगुणितांशकं ।। ८६ ।। एतश्च प्रतिबन्धं स्याद्भेदं कलशबन्धनम् । अधिष्ठानस्य चोत्सेधं चतुर्विंशतिभाजिते ॥ ८७ ॥ पादुकं तु विभागेन तत्समं पङ्कजोदयम् । । आर(अब्ज)मेकेन कर्तव्यं जग(त्यु)चं रसांशल(क)म् ।। ८८ ॥ पममेकेन भागेन कण्ठपद्मं तु भागया । वे(ई)शांशं कलशोत्सेधं कमलं त्वेकभागया ॥ ८९ ।। प्रतिवन्धे तु भेदं स्याच्छीकारं नाम म्यु( तू )च्यते । भानुद्रशे तलोत्सेधं द्विभागं पादुकोदयम् ॥ ९० ॥ उपोवा(पा)नं शिवासं(शं) स्यात्पडशं दलपानकम् । कण्ठमंशेन कर्तव्यमंशेनाजि(ज) प्रकल्पयेत् ॥ ९१॥ गुणांशं खण्डमानं तु दलमेकेन वृत्तकम् । कम्पपेकेन कण्ठं तु गुणांशं दलमानकम् ॥ ९२ ॥ व्योमाशं दलमानं तु द्विभागं पट्टिका भवेत् । एकांशं दलमानं तु कम्पमकेन कारयेत् ॥ १.३ ॥ सुन्दराणां बु(त्यम्बु)जानां पादबन्धे तु भेदितम् । चतुःसप्तद्विभागं तु तलमानविभाजिते ।। ९४ ॥ द्विभागं पादुकं ख्यातं दलमान युगांशकम् । गलमेकेन कर्तव्यमम्बुजं तु विभागया ।। ९५ ॥ द्विभागं पट्टिकामानमंशं पादुकमुच्यते । जगतीचतुरश्रं तु पद्ममंशं द्विजोत्तम ॥ ९६ ।। कण्ठमंशेन पत्रं तु शस्य(श्यं)शं प्रविधीयते । गुणांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत् ।। ९७ ॥ कम्पमंशेन कर्तव्यं त्रिपमं त्वेकभागया । प्रतिमानं भवेदं (द्वयं)शं वाजनं तु शिवांशकम् ॥ ९८ ॥ एवं नलिनकान्तं स्यात्सर्वदेवप्रियावहम् । त्रयोविंशतिभागे तु तु(त)लोच्चं तु विभाजिते ।। ९९ ।।