________________
arreपशिल्पे षष्ठः पटलः ।
साशं पादुकोत्सेधमुपोपानं शतांशकम् ।
अथो (घः) पद्मं विभागं स्यादेकांशं कण्ठमुच्यते ॥ १०० ॥ तदुद्वेपनमेकांशं कुमुदोच्चं गुणांशकम् । तदूर्ध्वं पद्ममेकमेकांसमपमानकम् ।। १०१ ।। कण्ठं द्वयंशेन कर्तव्यमेकांशं चाथ पट्टिका |
२.३
एकां पद्मतुङ्गं (तु) लिङ्ग त्वेकविभागया ॥ १०२ ॥ त्रिप तु यथांशं तु प्रतिमानं विभागया । एकानापू (कोनं वा जनं कुर्याच्छ्री सौन्दर्यमुच्यते ॥ १०३ ॥ प्रतिबद्धस्य भेदं स्यादतं (न्तं) चापुनराश्रया । चतुर्विंशतिभागं तु तलोच्चं तु विभाजिते ॥ १०४ ॥ उपानं त्वेकभागेन द्विभागं तु दलोदयम् । तदूर्ध्वे कम्पमेकांशं जगत्युच्चं रसांशकम् ।। १०५ ॥ वेदांशं कुमुदोत्सेधं पद्ममंशेन कल्पयेत् । कण्ठमेकांशमित्युक्तमूर्ध्वपद्मं शिवांशकम् || १०६ ॥ बाजनोच्चं द्विभागेन एकाशं पद्मतुङ्गकम् । आलिङ्ग त्वेकभागेन त्रिपदं तत्समं भवेत् ॥ १०७ ॥ प्रतिमानं द्विभागं स्याद्वाजनं स्वकभागया | स्कन्दस्कन्दमिदं नाम्ना प्रतिबन्धस्य भेदकम् ॥ १०८ ॥ धरातलोच्चं विभजेत्रयोविंशतिभागया ।
उपानोदयमेकांशं षडंशं त्वम्बुजोदयम् ॥ १०९ ॥ एकांश कण्ठमानं तु ऊ पद्मं शिवांशकम् । युगांतु घटोत्सेधमेकांश पद्मकम्पकम् ।। ११० ॥ कम्पमेकेन कर्तव्यं द्विभागं कंधरोदयम् । एकांश कम्पमानं तु ऊ पद्मं तु तत्समम् ॥ १११ ॥ कपोतोच्च गुणांशं तु आलिन्द्रं त्वेकभागया | एतच्चाभ्बुजकान्तं स्याद्पादबन्धे तु भेदितम् ॥ ११२ ॥ एवं त्वनेकभेदेन मोच्यते तु धरातलम् ! तलोत्सेधमिवात्र स्याद्धीनाधिक्यान्न (क्यं न ) दोषभाक् ॥ ११३ ॥