________________
काश्यपशिल्पे षष्ठः पटलः ।
कम्पमैकेन कर्तव्यं वप्रबन्धमिति स्मृतम् । पादबन्धस्य वर्ग स्यात्सर्वधामसु पूजयेत् ॥ ७२ ॥ सन्महापष्टिकामानं कपोतं वो(वा)तबन्धकम् । कपोतोपरि कम्पो त्रिपटं लेकभागया ।। ७३ ॥ प्रत्युत्सेधं द्विभागेन वाजनं त्वेकभागया । तुङ्गे पड्रिंशदेशे तु कल्पयेत्प्रतिसुन्दरम् ।। ७४ ॥ अधीनस्यादि(धिष्ठानस्य) चोत्सेधं त्रयोविंशतिभाजिते । उपानमेकभागेन पद्ममेकेन कम्पकम् ।। ७५ ।। रं(अ)शेन पट्टिका विद्यात् कम्पमेकेन कल्पयेत् । . पममेकेन कण्ठान्तमेकांशेनैव कल्पयेत् ॥ ७६ ॥ एकांशेनाम्बुनं कुर्याद्गुणांशं कुमुदोदयम् । पममेकेन फर्तव्यमालिङ्ग वकभागया(तः) ।। ७७ ॥ त्रिपट्ट शिवभागं तु द्विभागं प्रतिमानकम् । पाजनं स्वेकभागेन कल्पयेत्तु यथाक्रमम् ॥ ७८ ॥ प्रतिबन्धे तु भेदं स्याच्छीकण्ठान्तमुदाहृतम् । उपानमेकभागेन पद्ममेकेन कम्पकम् ।। ७९ ॥ दुर्घशेन पट्टिकाकम्पमेकांशेन प्रकल्पयेत् । गलमेफेन कर्तव्यं पद्ममेकेन कारयेत् ।। ८० ॥ कुमुदं तु त्रयांशेन पद्ममेकांशमानतः । भालिङ्ग त्वेकभागेन त्वरितं शशिभागया ॥ ८१ ॥ अधिष्ठानस्य चोत्सेधं द्वाविंशतिविभाजिते । एतस्करीरवन्धं स्यात्पतिबन्धे तु भेदितम् ॥ ८२ ॥ पादुकं चैकभागेन भागेना तु कम्पकम् । कम्पमेकेन कर्तव्यं कण्ठमानं द्विभागया । ८३ ॥ कम्पमेकेन भागेन पट्टिकांशेन कम्पकम् । द्विभागं दलमागन्तु(नं तु)गलमेकांशमानतः ॥ ८४ ॥ अम्बुजं त्वेकभागेन कुम्भमानं गुणांशकम् । एकांशं दलमानं स्थादशेनालिन्दमुच्यते ॥ ८५॥