________________
काश्यपशिल्पे पष्ठः पटलः। गुणांशं गलमानं तु कम्पमेकेन कल्पयेत् । पममेकेन कर्तव्यं कपोताच्चं गुणांशकम् ।। ५८ ॥
आलिङ्ग त्वेकभागेन त्वरितं तु प्रकल्पयेत् । प्रतीतं य(पविभागेन शतांशं वामनोदयम् ॥ ५९॥ प्रतिबन्धस्य वर्ग स्यान्मश्चमन्थमुदाहृतम् । सदेवाऽऽलिङ्गकादूय विज्यंया(विभज्योविंशदंशकैः ॥ ६० ।। फलप्यं श्रीकान्तवन्म(नाम्ना) तु पादबन्धेऽतिभेदितम् । तुङ्ग पशिदेशं तु एकांशं पादुकं भवेत् ।। ६१ ।। द्विभागं दलमानं तु कम्पोच्चं शशिभागिना(गतः) । पण्डा(ड) शं तु जगत्युच्चं चतुर्भागं घटोदयम् ।। ६२ ।। कम्पमेफेन कर्तव्यं पद्मोच्चं तु द्विभागया(तः)। ऊर्ध्वकम्पमर्थकांशं गलमानं द्विभागया ॥ ६३ ॥ धाजनं त्वेकभागेन सार्धाशं कमलोदयम् । कम्पमेफेन कर्तव्यं श्रेणीबद्धमिदं भवेत् ॥ ६४ ॥ पादबन्धे तु भेदं स्यात्सिहेमाद्यैर्विभूषितम् । त्रिशतलोत्सेधं कृत्वा सार्धाशपादुकम् ॥ ६॥
कम्पम(शमित्युक्तं भूतांशं पङ्कजोदयम् । गलमन्येन कर्तव्यं पद्ममेकेन कारयेत् ।। ६६ ॥ कुमुदोच्चं त्रिभागेकं दलमेकेन कारयेत् । आलिङ्गन्मेकभागेन त्वरितं तत्समं भवेत् ॥ ६७ ॥ वृत्ते(प्रते)रुच्चं द्विभागेन वाजनं त्वेकभागया । अब्जबन्धमिदं नाम्ना भेदे तत्पतिबन्धके ।। ६८ ॥ तलं द्वाविंशदशे तु द्विभागं पादुकोन्नतम् । अब्जमेकेन कम्पं तु एकांशेन प्रकल्पयेत् ।। ६९ ।। जगतीपश्चभागे तु कुमदं चतुरंशकम् । पद्ममेकेन कर्तव्यं कम्पमेकेन कारयेत् ॥ ७० ॥ कप्ठतुङ्गविभागेन कम्पमेकेन कारयेत् । शिरा( वां )शं दलतुङ्गं तु महापट्टी द्विभागया(तः)।।७१ ।।