________________
काश्यपशिल्पे षष्ठः पटलः । कम्पमेकेन कर्तव्यं कण्ठोच्चं तु विभागया । एकांशं कण्ठतुङ्ग तु तत्समं तु दलोदयम् ॥ ४४ ॥ महापट्टी द्विभागेन दलमेकांशमानतः। फम्पमेकेन कर्तव्यमष्टाअं कुमुदं कुरु ॥ ४५ ॥ . अम्भोजके सरं ख्यातं पादपूज्यं तु भेदिनम् । एकोनविशदंशं तु तलोत्सेवं विभाजिते ।। ४६ ॥ उपानमेकभागेन अब्जोच्चमनलांशकम् । कम्पोच्चं मध्यभागेन जगत्युच्चं युगांशकम् ॥ ४७ ॥ अम्बुजं त्वर्धभागेन दलमर्धाशमानतः । अर्थाशं पमतुङ्ग तु ग(गु)णांशं पट्टमानतः ।। ४८ ॥ पनं मध्या (अमर्धा)शमानेन तत्समं कम्पमुच्यते । अत्यर्धाशं तु खण्डोच्च कम्पमन्येन कारयेत् ॥ ४९ ॥ पद्ममन्येन कर्तव्यं पट्टिकासार्थभागया(तः)।
अम्बुजं सार्धभागेन कम्पमध्येन कारयेत् ॥ ५० ॥ पुष्पपुष्कलमाख्यातं पादवन्धे तु भेदिनम् । द्वात्रिंशद्विभजेदायमुपोपानद्विभागया(तः) ।। ५१ ॥ उपानं त्वेति (क) भागं स्यात्सप्तांशं कमलोदयम् । कण्ठमेकेन कर्तव्यं पद्ममेकेन कारयेत् ॥ ५२ ॥ - कुमदोच्चं चतुर्भागमेकांशं दलमुच्यते । फम्पमेकेन कर्तव्यं गुणांश गलमानतः ॥ ५३॥ कम्पमेकेन कर्तव्यमूर्ध्वकम्म प्रकल्पयेत् । कपोतोच्चं युगांशेन आलिङ्गं त्वेकभागिना(गतः) ॥ ५४ ।। एकेनान्तरितं कुर्यात्पतितुङ्ग द्विभागया (नः)। वर्ज(वाज)नं तु द्विभागेन कल्पयेत्तु क्रमेण तु ॥ ५५ ॥ प्रतिबन्धे तु भेदं स्यात् श्रीबद्धान्तमुदाहृतम् । अष्टका(को)नस्य चोत्सेधमष्टाविंशतिभाजिते ॥ ५६ ॥ उपानं त्वेकभागेन जगत्युच्चं रसांशकम् । कुमुदं पञ्चभागेन कम्पमेकेन कारयेत् ॥ ५७ ।।