________________
१८
काश्यपशिल्पे पष्टः पटलः ।
अधिष्ठानस्य चोत्सेधमेकोनविंशदंशिते । उपानं चेतुभागेन सप्ताशे जगती भवेत् ॥ ३० ॥ पशं कुमुदोत्सेधमालिङ्गः त्वेकभागया । त्रिप स्वेकभागेन प्रत्युत्सेधं द्विभागया । ३१ ॥ वाजिनं चैत्र भागेन प्रतिबन्धमिदं जगत् । उपानरहितं शेषं पूर्ववन्नकाऽपि वा ॥ ३२ ॥ अधिष्ठानस्य चोत्सेधं पञ्चविंशतिभाजिते । शिवांश पादुकोत्सेधं जगती वसुभागया ॥ ३३ ॥ धात्वंशं कुमुदोत्सेधं व्योमांश कम्पमानकम् । अतलांशं गलोतु(त्तु)ङ्गं शस्यां (श्यं ) शे चोर्ध्वकम्पकम् || ३४ ॥ महापट्टिगणांशं तु तदूर्ध्वाशेन कम्पकम् ।
पादपन्थ (बन्ध ) मिति ख्यतमुपानरहितं तथा ॥ ३५ ॥ एतच्च पादपन्थं(बन्धं च नानाभेदैश्व कीर्तितम् | त्रिसप्ताशे तलोत्सेधे कृतशिनेकपा || ३६ || अम्बुजं सार्वभागेन कम्पममुच्यते । सप्तारं जगतीपूर्ण रसांशं कुमुद्रोदयम् || ३७ || आलिङ्ग मेकभागेन त्रिपट्ट त्वेकभागया । द्विभागं मतितुङ्ग स्याद्भागमेकेन वाजनम् ॥ ३८ ॥ प्रतिवक्त्रमिदं नाम प्रतिबद्धे तु भेदिनम् । तदेवं पक्षभागे तु उपानं परिकीर्तितम् ।। ३९ ।। आलिङ्गं च द्विभागेन शेषं पूर्ववदेव हि । उपानोपरि पद्मं च कम्पं चैकं परित्यजेत् ॥ ४० ॥ तच्च प्रतिक्रमं ख्यातं सर्वदेवालया (ये) हिक (त)म् | षडिश द्विज (भ) जे दुध (च्च) समु(मं) वा चैकभागया ॥ ४१ ॥ द्विभागेन दलं कुर्यात् कम्पमेकेन कारयेत् । षडंशं जगतीरुच्च मेकांश दलमानक्रम् ॥ ४२ ॥ खण्डमेकेन कर्तव्यमेकेनाब्जं तु कारयेत् । कुमुदीचं गुणांशेन पद्ममेकेन कारयेत् ॥ ४३ ॥