________________
काश्यपशिल्पे पञ्चमः पटलः । मासादमण्डपानां च निर्गमस्य प्रदक्षिणम् । सालानां गोपुराणां च प्रवेशस्याप्रदक्षिणे ॥ ४६॥ अभ्यन्तरे तु भित्तेस्तु गोपुराणां निधापयेत् । अग्रमग्रं तथैशान्यां मूले मूले तथाऽगुले ।। ४७ ॥ अमो मूले समायुक्त्या अग्नौ च वायुगोचरे । पश्च ब्रह्म समुच्चाय पूर्वादिक्रमशो न्यसेत् ॥ ४८॥ तन्मध्ये विन्यसेत्पीतां हेमपङ्कजसंयुताम् । पञ्चमृद्भिः समालिख्य कुम्भस्थाद्भिस्तु पूरयेत् ॥ ४९ ॥ शोभनं दक्षिणावर्त वामावर्तमशोभनम् । वामावर्त भवेत्सम्यक्शान्तिहोमं तु कारयेत् ॥ ५० ॥ यागोपकरणं सर्जामध्याच्छिल्पी प्रकारयेत् ॥ ५१ ॥ इति काश्यपशिल्पे प्रथमेष्टकाविधिश्चतुर्थः पटलः ।
अथ पञ्चमः पटलः ।
उपपीठपमाणम् - अथ वक्ष्ये विशेषेण उपपठिविधि परम् । स्वाधिष्ठानसमोच्चं वा त्रिपादं सार्धमेव वा ॥ १ ॥ पञ्चभागेऽमिभाग वा सपादं सार्धमेव वा । पादोनादिगुणं वाऽथ द्विगुणं वा विशेषतः ॥ २ ॥ एवमष्टविधः ख्यात उपपीठोदयो दिन । दशधा भज्याधिष्ठानमेकद्वित्रिचतुष्टयम् ॥ ३ ॥ पञ्चांशं वाऽथ निष्क्रान्तमधिष्टानस्य पादुकम् । उपपीठस्य नीनं तु पञ्चस्स्थं (श्चशिं) परिकीर्तितम् ॥ ४ ॥ तम्भि(न्नी)त्रमुपपीठं तु पाद्धाटे परिकल्पयेत् । अथ वाग्नी(याग्नि) पादसदृशं द्विगुणं त्रिगुणं तु वा ॥ ५॥ जगती नीव्रतुल्यं वा उपानसदृशं तु वा । एवं हि पञ्चभेदं स्थादुपपीठस्य निर्गमः ॥ ६ ॥