________________
काश्यपशिल्पे चतुर्थः पटलः । हेमैः कार्पासमूत्रैर्वा प्रतिसंबन्धयेस्सदा । स्थण्डिले कर्णिकाबाट महासामुधि(नि)धापयेत् ।। ३२ ॥ लकारं प्रति भागे तु लकारं याम्यगोचरेत् । लकारं वारुणश्वेतु यकारं सौम्यगोचरे ३३ ॥ शालिपिष्टेन संलिख्य प्रत्येक वस्त्रवेष्टितम् । पूर्वाग्रं सौम्य याम्ये तु शेषौ द्वौ चोत्तरानको ॥ ३४ ॥ स्थापयेत्सममभ्ययं पृथिव्याधा नकः(व) क्रमात् । नवसंख्याम्मवान्कुम्भान्सूत्रवस्त्रविभूषितान् ॥ ३५ ॥ सर्वस(चर्चान्स)विधातानान्स्ना(नानांश्च स्ना)नगन्धसुपूजितान् । हेमकम्प(पङ्कजसा(सं)युक्तान्मध्यमान्क्रमशो (न्य)सेत् ॥३६॥ मध्यकुम्भे तु सादाख्यं परितो लोकपालकान् । तत्तन्मन्न्यसेत्कुम्भं ध्यात्वा गन्धादि पूजयेत् ॥ ३७ ॥ नैवेद्यान्नपयो धीमांस्ततो होम समाचरेत् । अग्निध्यानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ३८ ॥ पालाशोदुम्बरेश्चैव अश्वत्थवटामिन्दुषु । समिधः सम्यमन्त्रेण मूलेनान्यत्तु होमयेत् ।। ३ ।। चरुहोममघोरेण नेत्रेणैव तिलांस्तथा । सर्पपं कवचेनैव प्रत्येकाष्टशताहुतीः ॥ ४० ॥ द्रव्यं प्रति विशेषेण व्याहृत्याऽऽहुतिमाचरेत् । एवं जागरणं यातौ ( रात्री ) प्रभाते देशिकोत्तमः ।। ४१ ॥ आपोरगाहनादीनि प्राणिनैव समाचरेत् । इष्टकाकलशाग्निं च पूरयेत्तु विशेषतः ॥ ४२ ॥ जलादिरम्यदानश्च राष्ट्रं चैव तु होम येत् । शिष्टमग्नेति मन्त्रेण पूर्णाहुति समाचरेत् ।। ४३ ।। स्थापकः स्थपतिः पूज्यो वस्त्रहेमाङ्गुलीयकैः । मुहूर्ते समनुप्राप्ते द्वारं निश्चित्य नेसभा |॥ ४४ ।। द्वारस्य दक्षिणे वाघ्रिमूले भक्त्यन्तराधिके । इष्टकां वा शिलायां तु स्थापयेत्स्थपतिः क्रमात् ॥ ४५ ॥