________________
काश्यपशिल्पे चतुर्थः पटलः। स्थाण्डिलं वेदिकायां तु अष्टद्रोणश्च शालिभिः । तदर्धेस्तण्डुलेश्चैव तदर्धेश्च तिलरपि ॥ १७ ॥ स्थण्डिलं कल्पयेद्धीमान्दर्भः षुष्पैः परिस्तरैः। शिलाभिस्ते(तो) शिलाभिस्तु तरुभिस्तरुहर्म्यके ।। १८ ॥ आयेष्टकान्तं कर्तव्यं विपरीतं विनाऽऽचरेत् । पुंलिङ्गाभिः शिलाभिस्तु कारयेत्ययमेष्टकैः ( काः ) ॥ १९ ॥ द्वारबन्धस्तु कर्तव्यः श्रीकलाभिर्विशेषतः। नपुंसकोपलै व मूíपीकद्विजोत्तम ॥ २० ॥ यथालाभशिलाभिर्वा भित्तिस्तम्भोदयो भवेत् । नवाछुलं समारभ्य द्विद्वयङ्गुलविवर्धनात् ॥ २१ ॥ एकोनचत्वारिंशान्तं वेदमेवाङ्गलेन तु ।। विस्तारं च घनं प्राग्वत्तसंख्या हैव षोडश ।। २२ ॥ एकादिषोडशान्तं भूमिनामक्रम उच्यते । मतेष्टि(दिष्ट)कादिपुंसादि रेखाभिस्तु परीक्षयेत् ॥ २३ ॥ अयुग्मऋजुरेखा च पुंलिङ्गा संप्रकीर्तिता । युग्मरेखा च युग्मत्वाळ(त्कण्ठाभा सा नपुंसका ।। २४ ॥ भिभबिन्दुकलादीनि लोकपालसमन्वित।। वर्जितानि प्रयत्नेन दोपहीनांस्तु संग्रहत् ।। २५ ।। ईषदुमतमग्रं स्यानतमग्रमुदाहृतम् । ऊर्श्वभागमुखं ख्यातमपरं भूतदांशकम् ॥ २६ ॥ अग्रानामग्रतां चाग्रा ऊचकं ह्यापरमच्यते । प्रागुदस्तं तु वैश्यानां शीर्षाणां परिकीर्तितम् ॥ २७ ॥ मूलान्तादितरख्यातं प्रमाणमिष्टया परम् । गव्यगन्धोदकैः स्था(स्ना)प्य पूर्वरात्रेऽधिवासयेत् ॥ २८ ॥ शिवद्विजकुलोद्भूतं शिवदीक्षासमन्वितम् । सर्वलक्षणसंपन्नो वेदाध्यायव(र)तः शुचिः ॥ २९ ।। आपोवगाहनं स्नानं भस्मस्नानं समाचरेत् । नवाम्बरधरोष्णीषं सासोक्तिर्या सनियंग)नुलेपनम् ॥ ३० ॥ गण्य(न्ध)माल्यैरलंकृत्य सकलीकृतविग्रहम् । पचाङ्गभूषणभूष्य क्षालयेद्वर्मनेष्टकाः ।। ३१ ॥