________________
काश्यपशिल्पे चतुर्थः पटलः सदने परिवाराणां विन्यसेत्प्रथमेष्टकाम् । स्निग्धं चैव तथाऽस्निग्धं द्विविधं भूमिलक्षणम् ॥ २॥ चिकणं शर्कराढ्यं च अशक्यं (क्य) घ(ख)नन(न) क्रियः(यम्)। मुस्निग्धमिति विख्यातं तनुवालुकसंयुतम् ॥ ३ ॥ पुरुषाञ्जलिमात्रं तु दृष्ट्वा तोयसमन्वितम् । अशेपं(शक्य) खननं यत्तत्(द) स्निग्धाख्यान(ख्यं) महीतथा(लम्) प्रासादस्य तु विस्तारो द्विद्विहस्तोऽथ विस्तृतः । हस्तमात्रं खनेविन सुस्निग्यं तु महीतलम् ॥ ५॥ यावत्तत्र जलं दृष्टं खनेत्तावत्तु भूतले । अवटं वालुकैः स्थूलैः पूरयित्वा जलान्वितम् ॥ ६ ॥ पूरयित्वा जलं पश्चान्जलेन समतां कुरु । श्वसलेहस्तिपादैश्च स्निग्धं कृत्वा वृहच्छिरः ।. ७ ॥ एवमाधारमानं तु अधिकं म(त्व)वठ(ट) कुरु । मानसूत्रादिस त पातयेत्तत्र देशिकः ।।८।। प्रथमं मानसूत्रं तु विन्यसेत्तु द्वितीयकम् । तृतीयः(य)धिष्ठानसीमा(ना)न्तं तथोपपीठसीमकम् ॥ ९॥ पश्चमं होमसूत्रं तु पष्ठं तु प्रतिमूत्रकम् । एवं क्रमेण कर्तव्यं मूत्रपटुं द्विजोत्तमाः ॥ १० ॥ तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः । पोडशस्तम्भसंयुक्तं विधान(य) द्विजभूपितम् ॥ ११ ॥ तोरणदर्भमालैश्च मुक्तादामेरलंकृतम् । मण्डपस्य त्रिभागेकं वेदिकायास्तु विस्तरम् ।। १२ ॥ हस्तमात्रसमुत्सेधं दर्पणोदरसंनिभम् । परितस्त्वग्निकुण्डानि महाशालं प्रकल्पयेत् ॥ १३ ॥ वेदानं च सुबत्तं च अनमिन्द्रादितः क्रमास् । हस्तमा च विस्तारं खातं चैवातिमेखलम् ॥ १४ ॥ गोमयालेपनं कृत्वा प्रोक्षयेत्पश्चगव्यकैः। पिष्टचूणैरलंकृत्य ततो चै विप्रभोजनम् ॥ १५ ॥ कृन्वोच्छिष्टं समुद्रास्य वास्तुहोमं ततः कुरु । पनिकरणं कृत्वा प्रोक्षयेद्वा कुशान्यसेत् ॥ १६ ॥