________________
काश्यपशिल्पे चतुर्थः पटलः । अग्नि( ग्न्या )धानादिकं सर्वमग्निकार्योक्तमाचरेत् । ब्रह्मादिवास्तुदेवांश्च अग्निमध्ये तु मा( आ )वहेत् ॥ ७ ॥ गन्धः पुष्पैश्च धूपैश्च पूजयेत्स्वस्वनामतः । प्रणवादीनां (दिस्वनाम्नां) तु स्वाहान्तं होममाचरेत् ॥ ८॥ स्याब्रह्म समीहेतुः प्रत्येकं होममाचरेत् । शतम तदर्थं वा होम येद्दोघृतेन तु ॥ ९ ॥ पायसेनैव चरुणा प्रत्येकं तु शताहुती । जयादिरभ्यातानं च राष्ट्रभ्यश्च क्रमायु(द्ध )ते ॥ १० ॥ मिन्दाहुतिं च कूश्माण्डं प्रायश्चित्ताहुति चरेत् । हव्यवाहेति मन्त्रेण स्विष्टमग्नेति होमयेत् ।। ११ ॥ यदस्येति च मन्त्रेण होमयेत्तु घृतेन तु ।। परिपेचनं (क) ततः कृत्वा प्रासादे ननु मन्त्रतः ।। १२ ॥ परिस्तरणं विधाय आज्येत्तोत्तपथे (ज्यस्योत्पवने) क्रमात् । ब्राह्मणं तु परे दद्यादर्शनौ सूर्यमण्डले ॥ १३ ॥ मणीतायेन ( द्भिश्च ) संमोक्ष्य आत्मार्थ पावमानकैः । एवं समाप्य होमं तु प्रणिपत्य क्षमापयेत् ।। १४ ॥ दभैः पालाशपत्रैश्च शोपितेवन्य येत्क्रमात् । सदमा दीपयित्वा तु तथा मासादमण्डपे ।। १५ ॥ प्राकारे गोपुरस्थाने पर्यमिकरणं कुरु । माझे तदग्निमुहास्य स्थापिते तु जले बुधः ॥ १६ ॥ सर्वत्र प्रोक्षयेद्विद्वान्चापि( शुची ) वो हव्यमन्त्रतः । पासुदेवोद्गतार्थ तु पर्यनिकरणं कुरु ।। १७ ॥ वास्तुहोमः समाख्यातः प्रथमे(तोऽथे)टकाया विधि शृणु ॥१८॥ इति काश्यपशिल्पे वास्तुहोमस्तृतीयः पटलः ।
अथ चतुर्थः पटलः ।
प्रथमाकाविधानम् अथ वक्ष्ये विशेषेण शृणु [ स्वं ] प्रथमेष्टकाम् । प्रासादे मण्डपे साले गोपुरे च तथैव च ॥ १ ॥