________________
काश्यपशिल्पे पञ्चमः पटलः।
उपपीठस्य निष्क्रान्तं सभादीनामथोच्यते । समादीनां तु पाद्वाह्य निष्क्रान्तं दण्डमुण्ड उच्यते ॥ ७॥ समं तु दण्डमारभ्य नवदण्डावसानकम् । उपानं तब (च त) थानीनं प्रथमादित्रयत्रयम् ।। ८ ॥ सदुदशांशे तु उपानोपद्विभागया । पत्रमंशेन कर्तव्यं मध्यांशं कम्पमुच्यते ॥ ९॥ भूतांशं कण्ठतुङ्ग तु कम्पमजं तु पूर्ववत् । एकेन वाजनं कुर्यात् कम्पमेकेन कारयेत् ॥ १० ॥ अष्टाङ्गन्मेवमाख्यातं षडङ्ग तद्विनाऽम्बु जम् । कम्पेनाम्बुजमानं तु योग्यं भद्रोपपीठकम् ॥ ११ ॥ ऊर्षे कम्प विना वाऽपि पञ्चाङ्गमपपीठकम् । उपपीठस्य चोत्सेधं सप्तविंशतिभाजिते ।। १२ ॥ द्विभागं पादुकोत्सेधं पङ्कजं तत्समं भवेत् । कम्पमेकांशमित्युक्तं द्वादशांशं गलोदयम् ।। १३ ॥ उत्तरं चैकभाग्यं स्यात तत्समं चोर्वमम्बुजम् । अग्निभागं कपोतोच्चं क(क)शमालिङ्गमुच्यते ॥ १४ ॥ त्रैयश्रमेकभागेन प्रतिमानद्विभागया। पानं चैकविभागेन नानं तत्प्रतिभद्रकम् ।। १५॥ द्विभागं पादुकोत्सेधं द्विभाग पाक(पङ्कजोद द)यम् । कम्पमेकेन कर्तव्यमेकेनान्तरितं भवेत् ।। १६ ॥ द्विभागं प्रतितुङ्गं तु एकेनैव तु वाजनम् । अष्टांशं गलयानं तु कम्पमेकेन कारयेत् ।। १७ ।। अजमेकेन कर्तव्यं कपोतोचं गुणांशकम् । एकेन लिङ्गमेकेनान्तरितं तु प्रकल्पयेत् ॥ १८ ॥ प्रतितुङ्ग द्विभागेन वाजनं चैकभागया । सप्तविंशतिभागे तु नान्मतःप्र( नं तत्प्रतिमुन्दरम् ॥ १९ ॥ उपपीठस्य चोत्सेधमेकविंशतिभाजिते । उपानं तु द्विभागेन तत्समं त्वम्युनोदयम् ॥ २० ॥