________________
काश्यपशिल्पे द्वितीयः पटलः । चक(क)वीदा(रा) विदारी च पूतना पापराक्षसी । ईशानादिपु कोणेषु वामस्थपदवर्जिताः ॥ ११ ॥ एताश्चैकोनपश्चाशद्देवताः परिकीर्तिताः । विंशत्सूत्रेण ते सर्वे बद्ध्वा वै वास्तुमूर्तिनाम् ।। १२ ॥ अधोमुखं शयित्वा तु नासामपिसितस्थिता । वास्तुमति त्वया देव बद्ध्वान्तं शाययेत्कथम् ॥ १३ ॥ देवासुरमहायुद्धं वर्जयन्तु यथा तथा । असुराणां हि तत्कायों उग्रः कुर्यान्महंततः ॥ १४ ॥ ततस्तु संभृताकारं भूताकारं महाजलः । अब्रवीच्च तु संभूता देवै युद्धं प्रवर्तयेत् ।। १५ ।। सर्वदेवायुधैर्देवैर्वर्धनं तु न शक्यते । सर्वदेवाश्च तद्भूतं शाययेयुरधोमुखम् ॥ १६ ॥ विंशत्सूत्रैश्च तद्भूतं बद्ध्वा संस्तभ्य संस्थितः । स एव वास्तुपुरुषो वास्तुमूर्तिस्तदुच्यते ॥ १७ ।। तदन्यधोमुखो हीनः सर्वेषां दुःखमावहेत् । यत्र वास्तुनि विन(न्य)स्यात्तत्सर्व वास्तुमूर्तिवत् ॥ १८॥ तदुनृत्य निवृत्त्यर्थं सर्वदुःख निवारणम् । सर्वसिद्धिकरं तं तु वास्तुहोमं बाल कुरु ॥ १९ ॥ ब्रह्मादिदेवतानां तु तृप्तिहोमवालं द्विज । तासां तृप्तिकृतं वास्तु पुरुपो रा(वा)थ नश्यति ।। २० ।। सस्मात्सर्वप्रयत्ने दद्याब्रह्मादिना बलिः । वास्तुहोमस्तु कर्तव्यो ब्रह्मादीनां स्वनामतः ॥ २१ ॥ ऐशान्यां तु शिरो न स्याद्वरदोनिरुचिगोचिरे । आग्नेयं वायुदिग्भागे कृपरी जानुशायिनी । मूर्तिदेवस्थिता देवास्त्वीशाने शिरास स्थिताः। नेत्रस्थानादिपर्जन्यो जयन्तादितिकर्णको ॥ २३ ॥ आपः कृकाटिकावे तु आपवस्तथैव च । नाभिसूत्रे परौ ब्रह्माबीजाविन्द्रजयन्तिनी ॥ २४ ॥ लिङ्ग इन्द्रजयश्चैव पादयोनिवृतिस्थितिः । समरी पृथिवी चैव स्तनसूत्रोपरि स्थितौ ॥ २५ ॥