________________
काश्यपशिल्पे द्वितीयः पटलः ।
मध्वाज्यगुडसंमिश्रं देवानां तु वलिं ददेत् । प्रणवादीस्तु मध्ये तु स्वाहान्तं बलिमाचरेत् ।। ७३ ।। वास्तुहोमं तथा कृत्वा मध्ये रा(वा) चोत्तरेऽपि वा । वास्तुहोमं विना कृत्वा तद्वा स तु विनश्यति ॥ ७४ ।। पर्यग्निकरणं कृत्वा प्रोक्षयेत्पञ्चगव्यकैः । कर्षणं ह्येवमाख्यातं शृणु चाष्टकवास्तुकम् ।। ७५ ।।
इति काश्यपशिल्पे प्रथमः कर्षणपटलः ।
अथ द्वितीय पटलः ।
अथ पक्ष्ये विशेषेण प्रासादं तु विलक्षणम् । मासादस्य विशालं तु (लव) नवभागविभाजिते(तम्) ॥१॥ मागग्रादेशसूत्रं स्यादुदगग्रं तथैव हि । एतनवनवांशे तु ब्रह्ममध्ये नवांशयुक् ॥ २ ॥ समरी पूर्वभागे तु विवस्वान्दक्षिणे तथा । मित्रः पश्चिमभागे तु छुत्तरे पृथिवीधरः ॥ ३ ॥ ब्रह्माणं तु निरीक्षेतास्थितषट्पदभागिनः । आश्चैवापयन्साश्च (ईश ईशादयश्चैव हौ)शान्यां दिशिसंस्थितौ ॥४॥ सावित्रश्चैव सावित्रावाग्नेय्यां दिसह(श्यवस्थितौ । इन्द्र इन्द्रादयश्चैव नैर्ऋत्यां दिशिवं(श्यव)स्थितौ ॥ ५ ॥
छो रुद्राज(द)यश्चैव वायव्यां दिशि संस्थितौ । एते द्विपदभोक्तारो वंशमधद्वयं तथा ।। ६ ॥ ऐशान्यां चैव पर्जन्यो जयन्तश्च महेन्द्रकः । आदित्यः सत्यकच्चोवा भ्रमश्चैवान्तरिक्षकाः ॥ ७ ॥ अग्निः पूषा च विधतो (निर्वती) राक्षसश्च यमस्तथा । गन्धर्वो भृङ्गराजश्च मषश्चैव तु दक्षिणे॥ ८॥ निर्ऋतिर्दोवारिकश्चैव सुग्रीवः पुष्पदन्तकः । वरुणोऽशेषरोगाश्च पापक्षयविपश्चिमे ।। ९ ।। वायुनागास्तथा मुख्यो भल्लाटः सोम एव च । ऋगादीत्यदितिश्चैव बाह्यस्थैकांशभोगिनः ॥ १० ॥