________________
काश्यपशिल्पे प्रथमः पटलः ।
षष्ठी च दशमी कृष्णे कनिष्ठाssवा निगृह्यते । सितसौम्यौ शशी जीवः परं श्रेष्ठतमाः स्मृताः ॥ १३ ॥ तोषामंशोदय होरा द्रेकाणचैव दर्शिताः शुभदा इति विज्ञेयास्तत्र राश्युदयं विना ॥ १४ ॥
कर्कटकं तौलि मकरं धनुषीति ( च धनुर्वि ) ना | शेषराभ्युदयाः शस्ताः सर्वसंपत्समृद्धिदाः || १५ || उच्चस्थानगतश्चन्द्रः सौख्यो वित्तगतस्तथा । शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् ॥ १६ ॥ भौमादित्याबिन्दु राहू शौरिर्वा लग्नसंस्थिताः । आयुष्यं धनधान्यं च कर्तुर्नश्येन संशयः ॥ १७ ॥ धनस्थानगताः क्रूरा धनधान्यविनाशनाः । तत्रैव चन्द्रसंयुक्ता धनधान्यविवर्धनाः ॥ १८ ॥ भ्रातृस्थानगताः सर्वे सर्वसंपत्समृद्धिदाः । बन्धुस्थानगताः पापाः सर्वदुःखभयावहाः ।। १९ ।। पुत्रस्थानगताः क्रूरा मृत्युपीडा भविष्यति । शत्रुस्थानगताः सर्वे सर्वदुःखभयावहाः ॥ २० ॥ भार्यास्थानगतो जीवश्चन्द्रभावयुतस्तथा । आयुष्यं धनधान्यं च सर्ववृद्धिमदः सदा || २१ || निधनस्थानगाः सर्वे कर्तुर्निधनमादिशेत् । शुभग्रहान्वम (नव) स्थाने सर्वसौख्यधनावहाः || २२ ॥ कर्मस्थानगताः : क्रूराः सवित्तायुःक्षयावहाः । शुभग्रहस्तु कर्मस्थः सर्ववित्तविवर्धनः ॥ २३ ॥ | अशुभ शुभचैव लाभस्थानगताः शुभाः । द्वादशस्थो बुधो जीवो वित्तवृद्धिं समारभेत् ॥ २४ ॥ नक्षत्रान्ते च मासान्ते पक्षान्ते चेति दक्षिणे । व्यतीपाते च शूले च धृतौ वा कालकण्टके ॥ २५ ॥ क. ( ग ) ण्डके च तथा स्तूर्णे ( सूर्ये) परिवेषे च दुर्दिने । उल्कापाते मवेशे च विष्यं (ष्ट्यां) च विषनादिके ॥ २६ ॥ षडशीतिमुखे चैव मासशून्ये तथैव च । कर्पणादिप्रतिष्ठान्तं सर्वकर्म वि (हि) नाऽऽचरेत् ॥ २७ ॥