________________
काश्यपशिल्पे प्रथमः पटलः। मानामायुषं कर्तुं कृष्णपक्षे सुचन्द्रवत् । तस्माधैर्यस्नतः शीघ्रं कर्तव्यो धर्मसंग्रहः ॥ २८ ॥ अल्पदोषं गुणाधिक्य दिनं लग्नं च संग्रहेत् । अनेककोटिदोषाढचं दिन वा लग्नमेव वा ॥२९॥ दोषहीनतमं याति जीवदृष्टया द्विजोत्तम । अनेफकोटिदोषस्तु जीवैकेन विनातथा(विनश्यति)॥ ३० ॥ तमोऽपरिमितं रात्रौ रविणेकेन नश्यति । तथैव जीवदृष्टया तु सर्वदोषसमुद्रमाः ॥ ३१ ॥ एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् ।। तवं सदनं कुर्यात्तद्देवां(शे) कर्षणं कुरु ॥ ३२॥ अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् । . पैशाचिकपदे कुर्यादालयं तु पराङ्मुखम् ॥ ३३ ॥ परिवास्तु त्रिदण्ड्यादि यावता त्रिंशता(द)न्तकम् । तावद्वेष्ट्यादिदिशि(देशे)षु कर्तव्यं शिवमन्दिरम् ॥ ३४ ॥ परिखाऽस्यान्तरे वाऽपि पैशाचिकपदे कुरु । मानुषे तु पदे वाऽथ कर्तव्यं शिवमन्दिरम् ॥ ३५ ॥ विप्रक्षत्रियविदछूद्राश्चानुलोमस्तथैव च । समासान्मजि(नु)कतारः सर्वप्राणिहिताय वै॥३६॥ इस्तमात्रं ततः खात्वा खात्वा तद्भूमिमध्यमे । पूरिते तु मृदा ख्या(खा)ते ह्यधिका चोत्तमादिभिः(मही) ॥३७॥ समा ता(सा) मध्यमा ख्याता हीना सा कन्यका स्त(स्म)ता । अग्रताच्छो(तश्वोत्तमा मध्या मागहीनाऽन्यसद्मनि ।। ३८ ॥ श्वेतरक्ता च पीता च कृष्णा षप्रदथा(च कपिशा)क्रमात् । चतुर्विधमपि ख्याता तत्तज्जात्या हता शुभा ।। ३९ ।। परेषामपरा शस्ताश्वपरेषु परा विना । तत्तदोभ्यामभिग्राह्या मानामालयं कुरु ॥ ४० ॥ सर्वामभिप्रशस्ते तु देवानां तु विशेषतः । भूतप्रेतपिशाचेभ्यो दनलं वा बलिं ददेत् ।। ४१ ॥ अस्त्रेणोच्चाटनादेतत्पश्चात्करणमाचरेत् । श्वेतरक्ता च पीता च कृष्णा जान्युहुको क्रमात् ।। ४२ ॥