________________
ॐ तत्सद्ब्रह्मणे नमः। काश्यपशिल्पम् ।
प्रथमः पटलः ।
महादेवं शशिधरं सर्वलोकैकनायकम् । माहेन्द्रमध्यगं शान्तं पार्वतीसहितं परम् ।। १ ।। देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् । मणम्य देवचरणमेवं ब्रूयात्स काश्यपः ॥ २॥ शुचेत्परमसद्भावं प्रसन्ना( ङ्गा )त्सृष्टिकारणम् । जगतामभिवृद्धयर्थ योगिनामुपकारकम् ।। ३ ।। देवानां च हितार्थाय शिवज्ञानं परं महत् । महार्थमल्पग्रन्थं च कर्षणाधर्चनान्तकम् ॥ ४ ॥ अंशुमन्तमहातन्त्रात्चयोक्तं हि पुरार्थकम् ।। तम् तद्वच(द) देवानां रुद्राणामधिकारिणाम् ॥ ५॥ अल्पायुष्यादिधर्माणां नराणां त्वधिकारिणाम । अनुग्रहार्थं वेतेषां संक्षेपावद मे प्रभो ॥ ६ ॥ साधु साधु महाविप्र यत्त्वया परिचोदितम् । दुलभं तदहं वक्ष्ये शृणु ,काग्रमानसः ॥ ७ ॥ पुष्यमासादिषण्मासा माघमासेतरे शुभाः। दक्षिणे चाश्वयुङ्मासः श्रावणः कार्तिकस्तथा ॥ ८॥ पूजिताः कर्षणादीनां शेषमासा विवर्जिताः। पोष्णादित्यमघास्वातीसावित्रत्वाष्टमैत्रकम् । ॥ ९॥ अषणेनाप्रजाशस्तशस्तिष्याश्चि च कर्तृयुक् । (स)दने पूजिताः सतापं (तास्ताराः) प्रतिपत्पष्ठि सप्तमी ॥१०॥ तृतीया पञ्चमी चैव द्वितीया च त्रयोदशी । दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः ॥ ११ ॥ मतिपत्पौर्णमासी च द्वितीया पञ्चमी तथा । द्वितीया मध्यमा ख्याता कृष्णपक्षे विशेषतः ॥ १२ ॥