________________ 274 काश्यपशिल्पेऽष्टाशीतितमः पटलः / शंकरे वा विधानेन कूटं कुर्यात्सुसुन्दरम् / गृहच्यसान्तरा नित्यं द्विगुणं त्रिगुणं तु वा / / 161 // चतुष्पश्चगुणव्यासं द्वयन्तरं गृहकूटयोः। वायोरेवमेवं तु परे बाह्यं च तच्छृणु // 162 / / गृहायामसमं वाऽथ द्विगुणं त्रिगुणं तु वा / चतुष्पञ्च वाऽथ ग्रहकूटान्तरं भवेत् / / 163 // ग्रहस्य सकशदीर्घ च गृहं वा पार्श्वयोः पुरे / पुरे कल्पं च कूटं चेदिष्टदीर्घायतनं आहेत् / / 164 // ग्रहव्यासानुगुणं कुर्ट कल्पयेतियुग्मना / पञ्चहस्तं समारभ्य द्विद्विहस्तविवर्धनात् // 165 // एकविंशतिहस्तान्तं नवधा कूटविस्तृतम् / विस्तारसदृशोत्सेधहस्तं वाऽष्टकारकम् / / 166 // अष्टहस्तं तु वाऽधिक्यकूटायाम प्रकल्पयेत् / विस्तारद्विगुणं मध्ये कूटायाम प्रकल्पयेत् // 167 // कूटानां भागमानेन जात्यादिनियमं कुरु / हस्तमानेन कूटानां जात्यादिनियम विना // 168 // चतुर्भित्तिविशालं तु यथामञ्च तथा भवेत् / / 169 / / इत्यंशुमद्भेदे काश्यपशिल्पे ग्रामलक्षणं नामाष्टाशीतितमः पटलः /