________________
काश्यपशिल्पेऽष्टाशीतितमः पटलः ।
कल्प्यैव गोपुराकारं विजयाख्यगृहं भवेत् । सभारशिरोवापि लुनिराहाशिषं भवेत् ॥ ५६ ॥ पार्श्वयाकभागेन मालिनं च समावृतम् । पुरतो भद्रयुक्तं वा चतुर्वेशायतस्ततम् ॥ ५७ ॥ विजयं त्वेवमाख्यातमेतिकान्तमथोच्यते । नेत्रत्रयसमायुक्तमितिकान्तं प्रकल्पयेत् ॥ ५८ ॥ देवभूसुरभूपानां योग्यं नैवान्यवर्गिणाम् । कतिधाकृतिवंशाग्रं चतुर्नेत्रयुतं तु वा ॥ ५९ ॥ एकानेकतलं वाऽथ प्रासादवदलंकृतम् | कर्तुरिच्छानुसारेण स्थानविन्यासमाचरेत् || ६० ॥ विस्तारं धर्मभागं च धर्मभागविवर्जिते । बाह्ये वारं शिखांशेन पक्षांशग्रहविस्मृ (स्तु)तम् ॥ ६१ ॥ गृहाग्रे वारमेकांशं कर्णतुङ्ग युगांशकम् । शेषभागं खलूरिः स्यात्परितः कुड्यसंयुतम् ॥ ६२ ॥ एतदेवाङ्कणं विप्र मण्डपं परिवाच्यते । तदाहृतांशवाथ स्यात्पक्षांशेन खलूरिका ॥ ६३ ॥ शेषं पूर्ववदुद्दिष्टं साङ्गोपाङ्ग द्विजोत्तम । अथवा मण्डपं वर्ज्यं प्रागिवैव प्रकल्पयेत् ॥ ६४ ॥ मध्यरङ्गसमायुक्तं मुख्यलोहं द्विवासकम् । शालाविरहितस्थाने कुडयद्वारं प्रयोजयेत् ॥ ६५ ॥ जात्यादाभासपर्यन्तमेवमेवाङ्कणाद्बहिः ।
शेषांशमङ्गणं ख्यातं बाह्यालिन्द्रं विना तु वा ॥ ६६ ॥ महेन्द्रे ग्रहक्षते चैव पुष्पदन्ते तथैव च । भल्लाभ्यां शके चैव सर्वेषां द्वि( द्वा) रमुच्यते ॥ ६७ ॥ द्वारं चैवोपद्वारं च तेष्वेकांशेषु कल्पयेत् । जयन्ते जलनिष्ठान्तं मुख्यांशे वा विशेषतः ॥ ६८ ॥ द्वारस्य वामयोगस्य जलनिस्रं च दक्षिणे । पश्चिमे उत्तरे चैव जलमार्ग न कारयेत् ॥ ६९ ॥ यदि होमेन कर्तव्यं कर्तुर्मरणमादिशेत् । प्रागुदम्प्रागवत्प्रत्यगुदग्बाहन्तिकान्तिके ॥ ७० ॥
२६७