________________
२६६
काश्यपशिल्पेऽष्टाशीतितमः पटलः ।
पक्षां ग्रीवविस्तारं मेखलेन्द्रं च तत्समम् । गुणां ग्रहीतु खुरदीर्घ तु तत्समम् ॥ ४१ ॥ परितः कुड्यसंयुक्तं द्वारनेत्रादिके द्विज । कल्पितं तु ग्रहं ख्यातं रङ्गं पादोत्तरान्वितम् ॥ ४२ ॥ दक्षिणे तु ग्रहं तच्छ्रीरङ्गमायुष्करं भवेत् । सौख्यं तु दक्षिणे गेहं रङ्गपुत्रविवर्धनम् ॥ ४३ ॥ ग्रहं व्यासे गुणांशे तु अंगणं एकभागया । द्विभागं ग्रहविस्तारं आयामं पूर्ववद्भवेत् ॥ ४४ ॥ ग्रहायामे तु नन्दांशे इन्द्रांशं दक्षिणे त्यजेत् । गुणां वामपार्श्वे च विशेद्वेश्म तदन्तरे ॥ ४५ ॥ षडंशे च विशाले तु आयामे दशभाजिते । द्विभागं ग्रहविस्तारं च क्रमेण द्विभागया ॥ ४६ ॥ मुखद्वारविभागेन कल्पयेत्तु यथाक्रमम् । पार्श्वयोस्तु गुणांशेन गृहायामं विधीयते ॥ ४७ ॥ तयोर्मध्ये गृहांशे तु गमपादोत्तरान्वितम् । हरेग्रहारग्रंशे तु नवांशेंऽशद्वयं त्रिभिः ॥ ४८ ॥ युगांशैः पुरतोऽलिन्दै क्रमेणैव प्रकल्पयेत् । आयामा ग्रहारामं कृतं मध्येकभित्तिकम् ॥ ४९ ॥ भूतादि नन्दरुद्रांशं चरणव्यासभाजिते । अनलादितिमध्ये तु सव्येनैव क्रमान्वितम् ॥ ५० ॥ यथाक्रमेण नित्यां तु स्थापयेन्मध्यमद्धिमान् । गृहाङ्घ्रिमभ्यभित्तेस्तु चतुष्कं गृहमध्यगम् ॥ ५१ ॥ हस्तरामग्न्यगुपेतवत्क्रपादुक एव वा । विदुवातिग्रहाणां तु सामान्यं कुड्यविस्तृतम् ॥ ५२ ॥ अथवाऽङ्घ्रिविशालेन त्रिचतुष्पञ्च एव वा । एवं मध्यविशालं तु षड्विधं परिकीर्तितम् ।। ५३ ॥ अधिष्ठानादिवशतः प्रासादवदलक्षितम् । विजयाख्यस्य नेत्रे द्वे उभयोः पार्श्वयोः कुरु ॥ ५४ ॥ महानासिमिवाकारं नेत्रद्वयं प्रकल्पयेत् । पुरे पुरे चाल्पनाड्यं त्रिवस्त्रयसमन्वितम् ॥ ५५ ॥