________________
काश्यपशिल्पेऽष्टाशीतितमः पटलः । वितिकान्तमथोच्येत द्विद्विहस्तविवर्धनात् । नन्दकर्मकरारभ्य द्विद्विहस्तविवर्धनात् ॥ २६ ॥ सप्तसप्ताष्टषष्ठयन्तं वर्धमानं तु पड्दिधम् । तेष्वादौ मनुभेदौ तौ सप्रताकणकं ग्रहम् ॥ २७ ॥ दशषड्वात्रिंशद्भेदवित्तकणकान्वितम् । वर्धमानतमं व्यासायामयुक्तं सपत्तिकम् ॥ २८ ॥ दक्षिणे दक्षिणे वाऽपि वर्धमानस्य पार्श्वके । सुकान्तसहितं यत्तच्छ्रीकरं त्विति विद्यते ॥ २९ ॥ पार्श्वयोर्वर्धमानस्य शुकान्तौ तौ विराजितौ । अतिभद्राविति ख्याती मूलगेहान्तरक्षितौ ॥ ३० ॥ विस्तारसदृशः कायः सद्विहस्तं च भाति(जि)तौ । विस्तारसदृशाद्वेदहस्तं चौन्ववतं भवेत् ॥ ३१ ॥ प्रकल्पं षट्कराधिक्यं माशाभासाष्टकारधीः । कुञ्जादीन्हस्तमानाख्यं पङ्क्तिमानमथ शृणु ॥ ३२ ॥ विस्तारसदृशं याति च्छन्दं भागद्वयाधिकम् । चतुर्भागाधिकायश्च चिदमेवं द्विधा भवेत् ॥ ३३ ॥ देवद्विजमहीनाथो जि(चित)ज्यात्यायमायतम् । राजारसनयुक्तं नाभिंचतुर्जातिगृहं शुभम् ॥ ३४ ॥ शेषाणामपि सर्वेषां चित्तादीनि सुखावहम् । सर्व पूर्वोदितानां तु योग्यमृद्धिकरं भवेत् ॥ ३५ ॥ विजयादिगृहाणां तु जाद्या(त्या)यामं समं भवेत् । हस्तमानेन या(जा)त्यादिभागं चैव समाचरेत् ॥ ३६ ।। न कुर्यात्संकरं तेषु संकरं तत्तु नाशनम् । आच्यद्विहस्तमानं तु व्यासपङ्क्तिसमं तु वा ॥ ३७॥ पदत्रयं स्वस्तिकं तु व्यसदायतुनहिश्चेत् । (?) पदहीनं न कर्तव्यं सर्वसंपविनाशनम् ॥ ३८ ॥ एकबन्धं त्रिवन्धं वा अथवाऽनेकबन्धनम् । कल्पिते मानसूत्रातु नीनं पारात्तु वा भवेत् ॥ ३९ ॥ सर्वेपां विजयादीनां विन्यासं तु वदामि ते । देवभागं तु विस्तारे आयामे तु रसांशकम् ॥ ४० ॥