________________
२६४
काश्यपशिल्पेऽष्टाशीतितमः पटलः । नन्दांशं वर्जयेत्क्षेत्रे सिरसूत्रसमन्वितम् । अजांशमध्यमे वयं पुष्पादिऋक्षमागतः ॥ ११ ॥ राशयस्त्विति विख्याताः प्राग्वदाक्षिण्यमेव च । तेषु कर्कधनुर्मीनं मिथुनं चैव वर्जयेत् ॥ १२ ॥ शेषेष्विष्टं गृहं कर्म भानुकूलान्वितं गृहम् । ग्रामादिगृहश्रेणीषु राजा च सहजं भवेत् ॥ १३ ॥ भूपरीक्षामायसर्व मागिवैव समाचरेत् । कर्षणे ह्या(म)दितं ऋक्षं तिथिवारस्तदुक्तकम् ॥ १४ ॥ दर्शनं चोभयं सर्व शुभयुक्तं परिग्रहेत् । गृहारम्भं तु कर्तव्यं गर्भन्यासपुरःसरम् ॥ १५ ॥ गर्भन्यासं प्रकर्तव्यं प्रागुक्तविधिना बुधैः । भल्लाटांशे महेन्द्रांशे गृहक्षतपदे तथा ॥१६॥ पुष्पदन्तपदे चैव पूषादिषु चतुर्ग्रहे ।। द्वारस्य दक्षिणे वाघ्रियोगमूले तथा बुधः ॥ १७ ॥ गर्भन्यासं प्रकर्तव्यं तस्योर्वे प्रथमेष्टका । गृहदेवमिति ख्यातं देहगर्भमिति स्मृतम् ॥ १८ ॥ सगर्भ सर्वसंपत्स्यादगर्भ सर्वनाशनम् । षट्कौशिके जीवयुक्ता विधेया गर्भिणी भवेत् ॥ १९ ॥ गृहिणी गर्भिणी चेत्तु गर्भनाशं न कारयेत् । गर्भस्योपरि गर्भः स्यात्कर्तव्यांशं विनश्यति ॥ २० ॥ जीर्णे गृहे पुनर्वाऽपि गर्भ पूर्ववदाचरेत् । विजयं त्वि(त्व)तिकान्तं च सुकान्तं वर्धमानकम् ॥ २१ ॥ श(श्री)कांतं वसुकान्तं वा वर्धमानावधा(सा)नकम् । श्रीकरं चातिभद्रं च गृहभेदं तु षड्विधम् ।। २२ ॥ विमन्वे(विजयं त्वे)कब(शा)ला स्याविशाला वितिकान्तकम् । त्रिशाला वसुकाख्या(न्तं) वा अथवा(वर्धमा)नं चतुःस्स्यततुर्गह)म् श्रीकरं सप्तशाला स्यादशशालाऽतिभद्रकम् । त्रिचतुर्हस्तमारभ्य द्विद्विहस्तविवर्धनात् ॥ २४ ॥ नन्दकर्मकरान्तं तु युग्मयुग्मं चतुश्चतुः । अष्टधा विजयप्रास्म(यं प्रोक्तं) द्विशाला विक्षि(त्वतिकान्तकम् ॥