________________
२६८
काश्यपशिल्पेष्टाशीतितमः पटलः ।
अश्रि(ति)कान्तमिति ख्यातं इतरं सौम्यमुच्यते । अतिकान्तमिति ख्यातं सुकान्तमथ वक्ष्यते ।। ७१ ।। गृहयामे षडंशे तु द्विभागं ग्रहविस्तृतम् । वेदां नाणं विद्यात्द्वयंशेनैव खलूरिका ॥ ७२ ॥ चतुर्णेत्रसमायुक्तं बाह्ये वारयुतं तु वा । षडष्टांशे तदायामे द्विभागं ग्रहविस्तृतम् ॥ ७३ ॥ मुख्यगेहस्य चाग्रे तु अलिन्द्रं च शिवांशकम् । षडंशं चाङ्गणं ख्यातं द्वयंशाग्रे तु खलूरिका ॥ ७४ ॥ रसधर्माशके तारे चायामे च प्रकल्पयेत् । द्विभागं ग्रहविस्तारं मुखालिन्द्रं द्विभागया ॥ ७५ ॥ अष्टांशे नाङ्गणं ख्यातं शेषांशे तु खलुरिका । रसभागे कृते व्यासे भान्वंशे वा तदायमे ॥ ७६ ॥ द्विभागं ग्रहविस्तारं द्विद्वयंशं चाङ्गणं भवेत् । अलिन्द्रं तु शिवांशेन दशांशं त्वङ्कणं भवेत् ॥ ७७ ॥ प्रागिवैव खलूरिः स्यात्सर्वेषां बाह्यवारकम् । मानसूत्राहिस्त्वेवं गृहमानं सदा भवेत् ॥ ७८ ॥
स्वंशे तु तदायामे पक्षांशं ग्रहविस्मृ (स्तु) तम् । गेहानामग्रतोऽलिन्द्रं एकांशेन विधीयते ॥ ७९ ॥ वेदांशेनाङ्गणं कुर्याद्वस्त्रंशेन खलूरिका । परितोsवहितं कालं शंचांगणं भवेत् ॥ ८० ॥ वसुधर्मततायामे द्विभागं ग्रहविस्मृ (स्तु) तम् । अङ्गणं च शिवांशेन मुख्याग्रेंऽशं तु वारकम् ॥ ८१ ॥ पार्श्वयोस्तु तथावारं वस्त्रंशं त्वङ्गणं भवेत् । द्वयंशेनैव खलुरिः स्यात्पार्श्वग्रं द्वारहीनकम् ॥ ८२ ॥ अङ्कणं विंशदंशेन कल्पयेत्कल्पवित्तमः । वस्वेकांशे तदायामे अष्टात्रिंशतिमङ्गणम् ॥ ८३ ॥ शेषं पूर्ववद्दिष्टं खलुरिं चैव पूर्ववत् । वसुमन्वंशताराये द्विभागं ग्रहविस्तृतम् ॥ ८४ ॥ अङ्गणं च द्विभागेन द्वारं तत्समुच्यते । मुख्यगेहाग्रहस्तस्य वारं चकमणं भवेत् ।। ८५ ।।