________________
काश्यपशिल्पे सप्ताशीतितमः पटलः । महेन्द्रदिग्वंशकेष्वेव प्रवेशस्तु प्रकीर्णवत् । प्राङ्मुखं रसवीथी स्यादुदश्वक्त्रेव विंशतिः ॥१४॥ अष्टाविंशतिकाया वा तावदेव विवर्धनात् । एवमष्टाविधं ख्यातं श्रीपतिं तललक्षितम् ॥ १५॥ एतद्वाराष्टकोपेतमुपद्वाराष्टकं भवेत् । अथवा वेदवेदांशं वारईशं तु प्रागिव ।। १६ ॥ दण्डकं न्यस्तवस्तूनां भेदमेकमनेकधा । ग्रामादीनां तु विस्तारं भानुजन्माष्टसप्तधा ॥ १७ ॥ भूतवेदांशकं भूत्वा नन्दसप्तगुणांशकम् ।। भूतवेदाग्निभार्ग तु ग्रामे चपवि(वी)थी भवेत् ॥ १८ ॥ मानसूत्राद्धहिर्वप्रादन्तरं षड्विधं भवेत् । एकद्विनिचतुष्पञ्चहस्तं वा वप्रविस्तरम् ॥ १९ ॥ त्रिपश्चसप्तहस्तं वा नवरुद्रकरं तु वा । त्रयोदशकरं वाऽथ वमतुङ्गमुदाहृतम् ॥ २० ॥ त्रिचतुष्पश्चषट्सप्तवस्वंशं वा विशेषतः । वप्रमूलतलं कृत्वा एकांशेनाग्रविस्तरम् ॥ २१ ॥ शिलाभिर्वेष्टकाभिर्वा मृदा वा परिकल्पयेत् । छत्रदण्डाम्बुदाभं वा कृःलासपराकृतिः ॥ २२ ॥ इहास्यपरिवद्वाऽथ वप्रविषपमाचरेत् । करालमुद्गगुल्मासकल्कचिकणकर्मवाम् ।। २३ ॥ लाक्षां समालिपेदूचे पिष्टकाश्ममयूरपि । मनुयो दारुभिः पत्रैश्छादयेत्तु तृणादिभिः ॥ २४ ॥ तद्वाह्येऽभ्यन्तरे चैव खलु रेचेष्ट मानतः । वासार्थ स(श)कटादीनां तक्षकाणां विशेषतः । २५ ॥ तद्वाह्येऽभ्यष्टमानेन पञ्चभूम्याः परं भवेत् । तद्वाह्येऽभ्यष्टमानेन परिखां परिकल्पयेत् ।। २६॥ वास्याभ्यन्तरे विप्र देवतास्थापनं भवेत् । शिवहम्य च मातृणां समबाह्ये तु वा भवेत् ॥ २७॥ परिखस्य तु बाह्ये वा तौ संकल्प्य द्विजोत्तमः। आदित्यांशे तु भानोश्च आग्नेय्यां कालिकोष्ठकम् ॥ २८ ॥